________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / इति किम् / नुनावयिषति / 'अपरे' किम् / बुभूषति / स्रवति-' (2578) इतीत्त्वं वा / सिस्रावयिषति / सुस्रावयिषतीत्यादि / 'अपरे' इत्येव / शुश्रूषते / 2627 / स्तौतिण्योरेव षण्यभ्यासात् / (8-3-61) अभ्यासेण: परस्य स्तौतिण्यन्तयोरेव सस्य ष: स्यात्षभूते सनि नान्यत्र / तुष्टूपति / 'द्युतिस्वाप्यो:-' (सू 2344) इत्युत्त्वम् / सुष्वापयिषति / सिषाधयिषति / 'स्तौतिण्योः' किम् / सिसिक्षति / उपसर्गात्तु 'स्थादिष्वभ्यासेन च-' (सू 2277) इति षत्वम् / परिषिषिक्षति / 'पणि' किम् / स्मारयति / स्रवतीतीत्त्वं वेति // शुश्रूषते इति // ‘ज्ञाश्रुस्मृदृशां सनः' इत्यात्मनेपदम् / स्तौतिण्योरेव // षणीति कृतषत्वस्य सनो ग्रहणम् / ‘अपदान्तस्य मूर्धन्यः' इत्यधिकृतम् ‘इएकोः' इति च / तत्र कुग्रहणनिवर्तते असम्भवात् / णिग्रहणेन तदन्तग्रहणम् / 'सहे: साढः सः' इत्यतः स इति षष्ठ्यन्तमनुवर्तते / तदाह / अभ्यासेणः इत्यादि / षभूते इति // षकारं प्राप्ते सनीत्यर्थः / नान्यत्वेति // अभ्यासेणः परस्य चेत्सस्य षत्वं तर्हि स्तौतिण्यन्तयोरेवेत्यर्थः / नच 'आदेशप्रत्यययोः' इत्येव सिद्ध आरम्भसामर्थ्यादेव नियमलाभात् एवकारो व्यर्थ इति शङ्कयम् / षण्येवेति नियमनिरसनार्थत्वात् / षण्येवेति नियमे सति तुष्टावेत्यत्र पत्वानापत्तेः / स्तौतेरुदाहरति / तुष्ट्रपतीति // 'अज्झन' इति दीर्घः / ण्यन्तस्योदाहरिष्यन्नाह / द्युतीति // उत्त्वमिति // वकारस्य सम्प्रसारणमुकार इत्यर्थः / सुष्वापयिषतीति // स्वपेरें उपधावृद्धौ स्वापि इत्यस्मात् सनि इटि वकारस्य सम्प्रसारणे पूर्वरूपे सुप् इत्यस्य द्वित्वे णेर्गुणे अयादेशे सनः षत्वे अभ्यासेणः परस्य षत्वमिति भावः। सिषाधयिषतीति // अत्रापि ण्यन्तत्वादभ्यासेणः परस्य सस्य षत्वमिति भावः / सिसिक्षतीति // सेक्तुमिच्छतीत्यर्थः / सिन्धातोः सन् ‘हलन्ताच्च' इति कित्त्वान्न लघूपधगुणः / अभ्यासेणः परस्य सस्य चेत् षत्वं तर्हि 'स्तौतिण्योः' एवेति नियमान्न ष इति भावः / ननु परिषिषिक्षतीत्यत्र अभ्यासेण: परस्य सस्य कथं षत्वं 'स्तौतिण्योः' एवेति नियमात् 'स्थादिष्वभ्यासेन च' इति षत्वस्याप्यनेन नियमेन निवृत्तेरित्यत आह / उपसर्गात्त्विति // 'स्तौतिण्योरेव' इति नियमेन मध्येऽपवादन्यायबलात् 'आदेशप्रत्यययोः' इति षत्वमेव बाध्यत इति भावः / षणि किमिति // कृतषत्वनिर्देशः किमर्थ इति प्रश्नः / तिष्ठासतीति // 'धात्वादेः' इति षस्य सत्त्वे स्था इत्यस्य द्वित्वे अभ्यासहस्वे इत्त्वे 'आदेशप्रत्यययोः' इति षत्वम् / कृतषत्वे सन्येवायं नियमः / अत्र तु सनः षत्वाभावेन नियमाप्रवृत्तेः षत्वं निर्बाधमिति भावः / सुषुप्सतीति // स्वप्धातोः सनि ‘रुदविदमुषग्रहिस्वपि' इति कित्त्वात् ‘वचिस्वपि' इति सम्प्रसारणे कृते द्वित्वम् / कित्त्वान्न लघूपधगुणः / इहापि 'स्तौतिण्योः' एवेति नियमो न भवति / सनषत्वाभावादिति भावः / ननु षणि इणः परस्य सस्य चेत् षत्वं तर्हि 'स्तौतिण्योः' एवेत्येतावदेवास्तु / अभ्यासादिति किमर्थमित्यत आह / For Private And Personal Use Only