________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 338 सिद्धान्तकौमुदीसहिता [सन् " णौ च संश्चङोः' (सू 2579) (सू 2601) इति सूत्राभ्यामिङो गाङ , श्वयतेः सम्प्रसारणं च वा / अधिजिगापयिषति-अध्यापिपयिषति / शिश्वाययिषति-शुशावयिषति / ‘ह्वः सम्प्रसारणम्' (सू 2586) / जुहावयिषति / ‘णौ द्वित्वात्प्रागच आदेशो न' इत्युक्तत्वादुकारस्य द्वित्वम् / पुस्फारयिषति / चुक्षावयिषति / ‘ओ: पुयज्यपरे' (2577) / पिपावयिषति / यियावयिषति / बिभावयिषति / रिरावयिषति / लिलावयिषति / जिजावयिषति / 'पुयण्जि' तथापि सन्नियोगशिष्टत्वात् प्रत्ययस्य निमित्तत्वं पर्यवसानगत्येति बोध्यम् / वस्तुतस्तु पुष्ययोगं जानाति पुष्येण योजयतीत्येतत्साधके पुष्ययोगेति वचने भाष्योक्तप्रकृतिप्रत्यापत्तिरित्यनुवृत्तिरिह ज्ञापिका / तत्र हि 'चजोः' इति घिति परतः कुत्वम् / अन्यथा कल्लुकि निमित्तापायपरिभाषयैव कुत्वनिवृत्तौ किं प्रकृतिप्रत्यापत्त्यनुवृत्त्येति शब्देन्दुशेखरे विस्तरः / अथ 'इङ् अध्ययने' 'टु ओ श्वि गतिवृद्ध्योः' इत्याभ्यां ण्यन्ताभ्यां सनि विशेषमाह / णौ चेति // ‘णौ च संश्चङोः' इति सूत्रं द्वितीयस्य चतुर्थे पादे षष्ठस्य प्रथमे पादे च स्थितम् / सन्परे चपरे च णौ इङो गाङ्केति प्रथमस्यार्थः। सन्परे चपरे च णौ श्वयतेः सम्प्रसारणं वेति द्वितीयस्यार्थः। प्रथमसूत्रेण इडो गाङ, द्वितीयसूत्रेण श्वयतेस्सम्प्रसारणमित्युभयमपि पाक्षिकं भवतीत्यर्थः। अधिजिगापयिषतीति // इडो णौ विवक्षिते गाडि पुकि गापि इत्यस्मात्सनि रूपम् / ‘णौ च संश्चडोः' इति गाविधौ विषयसप्तमीति प्रागेवोक्तम् / गाङभावे आह / अध्यापिपयिषतीति // 'क्रीजीनां णौ' इत्यात्त्वे पुक् / शिश्वाययिषतीति // विधातोर्णी वृद्धावायादेशे श्वायि इत्यस्मात्सनि सम्प्रसारणाभावे रूपम् / सम्प्रसारणपक्षे आह / शुशावयिषतीति // ण्यन्तात्सनि इटि श्वि इ इस इति स्थिते " सम्प्रसारणन्तदाश्रयञ्च कार्यम्बलवत्" इति वचनात्प्रथम सम्प्रसारणं पूर्वरूपम् / शु इत्यस्य द्वित्वे उत्तरखण्डे उकारस्य वृद्धावावादेशे णिचो गुणायादेशाविति भावः / ह्वः सम्प्रसारणमिति // हेतुमण्ण्यन्तप्रक्रियायां व्याख्यातम् / जुहावयिषतीति // हेलो ण्यन्तात्सनि इटि प्रथमं सम्प्रसारणं पूर्वरूपम् / हु इत्यस्य द्वित्वम् / उकारस्य वृद्ध्यावादेशौ णिचो गुणायादेशाविति भावः। ननु परत्वात् द्वित्वात् प्रागेव उकारस्य वृद्ध्यावादेशयोः कृतयोः हाव् इत्यस्य द्वित्वे अभ्यासस्यात इत्त्वे इकार एव श्रूयेतेत्यत आह / णौ द्वित्वादिति॥पुस्फारयिषतीति // स्फुरते: ण्यन्तात्सनि इटि 'चिस्फुरोणौँ' इत्यस्मात् प्रागेव स्फुर् इत्यस्य द्वित्वम् / द्वित्वे कार्ये णावच आदेशस्य निषेधात् / 'ओः पुयण्जि' इति इत्त्वन्तु न / फकारस्य सकारेण व्यवहिततया पवर्गपरत्वाभावात् / चुक्षावयिषतीति // क्षुधातोः ण्यन्तात् सनि इटि क्षु इत्यस्य द्वित्वम् / परिनिष्ठिते रूपे अवर्णपरत्वेन णावच आदेशस्य निषेधादिति भावः / ओः पुयणिति // हेतुमण्णिच्प्रक्रियायामिदं व्याख्यातमपि स्मार्यते / पिपावयिषतीत्यादि // पू भू यु रु लू जु एभ्यो ण्यन्तेभ्यः सनि इटि द्वित्वे कार्ये णावच आदेशनिषेधात् उवर्णान्तानामेव द्वित्वे अभ्यासोवर्णस्य इत्त्वमिति भावः / जुः सौत्रो धातुः / ‘जुचकम्य' इत्यत्रोक्तः / अथ ‘स्रवतिशृणोति' इति सूत्रं हेतुमुण्णिच्प्रक्रियायां व्याख्यातं For Private And Personal Use Only