________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 'इस्' इति सनोऽवयवः कार्यभागिति कार्यिणो निमित्तत्वायोगात् / 'द्विर्वचनेऽचि' (सू 2243) इति न प्रवर्तते / अजिजिषति / अशिशिषते / 'उभौ साभ्यासस्य' (2606) / प्राणिणिषति / उच्छेस्तुक / चुत्वम् / 'पूर्वत्रासिद्धीयमद्वित्वे' इति चछाभ्यां सहितस्येटो द्वित्वम् / 'हलादिः शेषः' (सू 2179) उचिच्छिपति / निमित्तापाये नैमित्तिकापाय: इतित्वनित्यम् / 'च्छोः' (सू 2561) इति सतुक्कग्रहणाज्ज्ञापकात्। प्रकृतिप्रत्यापत्तिवचनाद्वा-'। इति इत्त्वम् / अरिरिषतीति // ऋधातोस्सनि इटि रूपम् / रिस्शब्दस्येति // गुणे रपरत्वे 'अजादेर्द्वितीयस्य' इति रिस्इत्यस्य द्वित्वमित्यर्थः / 'ननु द्विवचनेऽचि' इति निषेधाद्गुणासम्भवात् रिस् इत्यस्य कथं द्वित्वमित्यत आह / द्विर्वचनेऽचि इति न प्रवर्तते इति // कुत इत्यत आह / कार्यिणो निमित्तत्वायोगादिति // 'नहि कार्थी निमित्ततया आधीयते' इति निषेधादिडादेः सनो द्वित्वरूपकार्यिणो न द्वित्वनिमित्तत्वमिति भावः। ननु इडागमः सन्भक्तः / ततश्च इस् इत्यस्य द्वित्वेऽपि समुदायस्य इस इत्यस्य द्वित्वकार्यित्वाभावात् द्वित्वनिमित्तत्वमित्यत आह / इस् इतीति // इस् इति सनोऽवयवो द्वित्वभागिति कृत्वा अवयवद्वारा इस इति समुदायस्य कार्यित्वमिति भावः / अञ्जिजिषतीति // अजेस्सनि इटि 'न न्द्राः' इति नकारस्य निषेधात् जिस् इत्यस्य द्वित्वम् / ऊदित्त्वादिडिकल्पे प्राप्ते नित्यमिट / अशिशिषते इति // 'अशू व्याप्तौ' ऊदित्त्वादिदिकल्पे प्राप्ते नित्यमिट् / अश भोजने इति क्रयादिस्तु नित्यं सेडेव / उच्छेरिति // 'उच्छी विवासे' / अत्र 'छे च' इति तुगित्यर्थः / श्चुत्वमिति // तुक इति शेषः / ननु उच्छ् इस इति स्थिते श्चुत्वस्यासिद्धत्वात्तकारसहि. तस्य द्वित्वे अभ्यासे तकारः श्रूयेत इत्यत आह / पूर्वत्रेत्यादि / हलादिः शेषः इति // च्छिस् इत्यस्य द्वित्वे हलादिशेषादभ्यासे छकारसकारयोनिवृत्तौ तुकश्चकारः इकारश्च शिष्यते इत्यर्थः / तदाह / उचिच्छिषतीति // उत्तरखण्डे छकारे परे इकारस्य तुकश्चुत्वेन चकारः / ननु च्छिस् इत्यस्य द्वित्वे हलादिशेषात्पूर्वखण्डे छकारसकारयोनिवृत्तौ " निमित्तापाये नैमित्तिकस्याप्यपायः” इति न्यायेन तुकोऽपि निवृत्तेस्तदादेशचकारस्य कथमभ्यासे श्रवणमित्यत आह / निमित्तापाये इति // कथमनित्यत्वमित्यत आह / च्छोरिति // पृष्टः, पृष्टवानित्यादौ प्रच्छेः चकारस्य ‘च्छोः' इति शकारे व्रश्चादिना शस्य षत्वे तुक्चका. रस्य श्रवणप्राप्तौ तनिवृत्त्यर्थ सतुकग्रहणम् / तत्र चकारस्य शकारे सति निमित्ताभावादेव तुकोऽपि निवृत्तिसिद्धेस्सतुक्कग्रहणं व्यर्थमापद्यमानं 'निमित्तापाये' इत्यस्यानित्यतां ज्ञापयतीत्यर्थः / प्रकृतिप्रत्यापत्तिवचनाद्वेति // 'हनश्च वधः' इति हनधातोरप्प्रत्यये प्रकृते. वधादेशे वधशब्दः। कंसवधमाचष्टे कंसङ्घातयतीत्यादौ 'आख्यानात्कृतस्तदाचष्टे कुल्लुक्प्रकृतिप्रत्यापत्तिः' इति अप्प्रत्ययस्य लुकि प्रकृतेर्वधादेशनिवृत्तिर्विहिता। तत्र कृतो लुकि निमित्तापायादेव वधाद्यादेशनिवृत्तिसिद्धेः प्रकृतिप्रत्यापत्तिवचनं व्यर्थमापद्यमानं 'निमित्तापाये' इत्यस्य अनित्यतां ज्ञापयतीत्यर्थः / यद्यप्यत्र वधशब्दे अप्प्रत्ययः वधादेशश्च युगपद्विहितः, नतु प्रत्यये परे / 43 For Private And Personal Use Only