________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri ko प्रकरणम्] बालमनोरमा / 2613) इत्यत्र हल्ग्रहणं जातिपरमित्युक्तम् / तेन सन: कित्त्वान्नलोपः / धिप्सति--धीप्सति-दिदम्भिषति / शिश्रीषति--शिश्रयिषति / 'उदोष्ठयपूर्वस्य' (सू 2494) / सुस्वूर्षति--सिस्वरिषति / युयूषति-यियविषति / ऊर्जुनूषति ऊर्जुनुविषति-ऊर्जुनविषति / नच परत्वाद्गुणावादेशयोः सतोरभ्यासे उकारो न येतेति वाच्यम् / द्विवंचनेऽचि' (सू 2243) इति सूत्रेण द्वित्वे कर्तव्ये स्थानिरूपातिदेशादादेशनिषेधाद्वा / नच सन्नन्तस्य द्वित्वं प्रति कार्यित्वान्निमित्तता कथमिति वाच्यम् / “कार्यमनुभवन्हि कार्थी निमित्ततया नाश्रीयते, न तेनेति / धिप्सतीति // “सनीवन्त' इति इडभावे इत्त्वे रूपम् / धीप्सतीति // इडभावे ईत्त्वे च रूपम् / दिदम्भिषतीति // इट्पक्षे सनो झलादित्वाभावादकित्त्वान्नलोपो नेति भावः / शिश्रीषतीति // ‘सनीवन्त' इति इडभावे अज्झनेति दीर्घः / सनः कित्त्वान्न गुणः / इट्पक्षे आह / शिश्रयिषतीति // अझलादित्वान्न कित्त्वं नाप्यज्झनेति दीर्घः / स्वृधातोः सनि ऋकारस्य उत्त्वविधि स्मारयति / उदोष्ट्येति / सुस्वूर्षतीति // सनीवन्तेति इडभावे ऋकारस्य 'अज्झन' इति दीर्घ कृते उत्त्वे रपरत्वे 'उपधायाञ्च' इति दीर्घ इति भावः / सिस्वरिषतीति // स्त्र इत्यस्य द्वित्वे उरदत्वे इत्वमिति भावः / युयुषतीति॥ 'सनीवन्त' इति इडभावे 'अज्झन' इति दीर्घः / यियविषतीति // इट्पक्षे 'द्विर्वचनेऽचि' इति गुणनिषेधात् यु इत्यस्य द्वित्वे 'ओः पुयणजि' इतीत्त्वमिति भाषः / ऊर्जुनूषतीति // 'सनीवन्त' इति इडभावपक्षे 'नन्द्राः' इति रेफं वर्जयित्वा नुस् इत्यस्य द्वित्वे अज्झनेति दीर्घः / 'इको झल्' इति सनः कित्त्वान्न गुणः / इट्पक्षे तु ‘विभाषोर्णोः' इति सनः कित्त्वविकल्पं मत्वा आह / ऊर्णनुविषति-ऊर्जुनविषतीति // विडत्त्वपक्षे गुणाभावान्नुशब्दस्य द्वित्वे उत्तरखण्डे उवङ् / ङित्वाभावपक्षे नु इत्यस्य द्वित्वे उत्तरखण्डस्य गुणावादेशाविति भावः / उभयत्राप्यभ्यासे उवर्णः श्रूयते / ननु किं ङित्त्वाभावपक्षे ऊर्गु इस इति स्थिते द्वित्वात् प्रागेव परत्वात् गुणे अवादेशे च कृते नवशब्दस्य अभ्यासस्यात इत्वे ऊर्णिनविषतीति अभ्यासे इकार एव श्रूयेत, नतु उकार इत्याशङ्कय निराकरोति / द्विर्वचनेऽचीति // अस्मिन् सूत्रे स्थानिवदित्यनुवर्त्य रूपातिदेशं चाश्रित्य द्वित्वनिमित्त अचि परे यः अजादेशः सः द्वित्वे कर्तव्ये स्थानिरूपम्प्रतिपद्यते इत्येकोऽर्थः / 'न पदान्त' इत्यतो नेत्यनुवर्त्य द्वित्वनिमित्ते आचि यो अजादेशः स न स्यात् द्वित्वे कर्तव्ये ३त्यन्योऽर्थः / तत्र प्रथमव्याख्याने तु तस्यापि गुणस्य स्थानिभूतोकाररूपप्रतिपत्त्या नु इत्यस्य द्वित्वे अभ्यासे उकार एव श्रूयते / द्वितीयव्याख्यानेऽपि द्वित्वात् प्राक् गुणस्य निषिद्धतया नुशब्दस्यैव द्वित्वे अभ्यासे उकार एव श्रूयते इति भावः / ननु ऊर्ण इस इति सन्नन्तस्य द्वित्वरूपकार्यभावेन तदन्तर्गतस्य इस इत्यस्यापि कार्यित्वान्न द्वित्वनिमित्तत्वम् / नहि कार्या निमित्ततया आश्रीयते इत्युक्तेः / तथाच द्वित्वे कर्तव्ये द्वित्वनिमित्ताच्परकादेशस्य क्रियमाणो निषेधः कथमिह गुणस्य प्रसज्यते इत्याशय निराकरोति / न च सन्नन्तस्येति // कार्यमनुभवन्निति // अत्र व्याख्यानमेव शरणम् / For Private And Personal Use Only