________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 332 सिद्धान्तकौमुदीसहिता [सन् 2619 / आप्ज्ञप्यधामीत् / (7-4-55) एषामच ईत्स्यात्सादौ सनि / 2620 / अत्र लोपोऽभ्यासस्य / (7-4-58) 'सनि मीमा-' (सू 2623) इत्यारभ्य यदुक्तं तत्राभ्यासस्य लोपः स्यात् / आप्तुमिच्छति ईप्सति / अर्धितुमिच्छति रपरत्वम् चर्वम् / ईर्ल्सति-अदिधिषति / बिभ्रजिषति-बिभर्जिषति--विभ्रक्षति--बिभर्मति / 2621 / दम्भ इच्च / (7-4-56) दम्भेरच इत्यादीच्च सादौ सनि, अभ्यासलोपः / 'हलन्ताच्च' (सू बाह / आप्शप्यधामीत् // सादौ सनीति // ‘सनि मीमाधुरभ' इत्यतः सनीति अच इति चानुवर्तते / 'सःस्यार्धधातुके' इत्यतः सीत्यनुवृत्तं सनो विशेषणम्। तदादिविधिरिति भावः / अत्र लोपोऽभ्यासस्य // 'सनि मीमा' इति 'आप्ज्ञप्यधामीत्' इति 'दम्भ इच्च' इति 'मुचोऽकर्मकस्य गुणो वा' इति पूर्वसूत्रचतुष्टयलिहितकार्यमत्रेत्यनेन परामृश्यते। तदाह / सनि मीमेत्यारभ्येति // सूत्रचतुष्टयकार्ये कृते सतीत्यर्थः / ईप्सतीति // आफ्धातोस्सनि आकारस्य ईत्त्वे 'अजादेर्द्वितीयस्य' इति प्स इत्यस्य द्वित्वे अभ्यासलोप इति भावः / रपरत्वमिति // ऋधेः सनि इडभावे ऋकारस्य ईत्त्वे रपरत्वमित्यर्थः / चत्वमिति // ई स इति स्थिते धस्य चत्वे 'न न्द्राः' इति रेफ वर्जयित्वा 'अजादेर्द्वितीयस्य' इति त्स इत्यस्य द्वित्वे अभ्यासस्य लोप इति भावः / " पूर्वत्रासिद्धीयमद्वित्वे” इति वचनात् चर्वे कृते द्वित्वमिति बोध्यम् / इटपक्षे आह / आर्दिधिषतीति // सनः सादित्वाभावादित्त्वाभावे गुणे रपरत्वे अर् ध् इ स इति स्थिते धिस् इत्यस्य द्वित्वमिति भावः / भ्रस्ज्धातोः सनः इटि 'भ्रस्जो रोपधयोः' इति रमागमाभावे आह / बिभ्रजिषतीति // सस्य श्चुत्वेन शः शस्य जश्त्वेन जः डिदभावात् 'ग्रहिज्या' इति सम्प्रसारणन्न / बिभर्जिषतीति // इटि रमागमपक्षे भ्रस्ज् इस इति स्थिते अकारादुपरि सकारात्प्राक् रेफागमे भकारानेफस्य सकारस्य च निवृत्तौ भर्ज इस इति स्थिते भ इत्यस्य द्वित्वे हलादिशेषे अभ्यासस्य इत्त्वे जश्त्वे सनः षत्वे च रूपम् / तदेवमिट्पक्षे रमागमतदभावाभ्यां रूपद्वयम् / बिभ्रक्षतीति // इडभावे रमागमाभावे च रूपम् / जस्य कुत्वं सस्य षः। बिभर्खतीति // इडभावे रमागमे च रूपम् / तदेवमिडभावपक्षे रमागमतदभावाभ्यां द्वे रूपे / दम्भ इच्च // 'सनि मीमा' इत्यतः सनीति अच इति चानुवर्तते। चकारात् 'आप्ज्ञप्य॒धाम्' इति सूत्रादीदिति समुच्चीयते। 'स: सि' इत्यतस्सीत्यनुवृत्तं सनो विशेषणं तदादिविधिः / तदाह / दम्भेरच इत्यादि // अभ्यासलोपः इति // 'अत्र लोपः' इत्यनेनेति शेषः / दम्भ स इति स्थिते इक्समीपादनुस्वारादव्यवहितपरत्वाभावेऽपि हलन्तादित्यस्य प्रवृत्तिमुपपादयति / हलन्ताच्चेत्यत्रेति // हलग्रहणं हलत्वजात्याक्रान्तैकानेकव्यक्तिपरमिति प्रागुक्तमित्यर्थः / ततः किमित्यत आह / For Private And Personal Use Only