________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 322 सिद्धान्तकौमुदीसहिता [णिच् 2601 / णौ च संश्चङोः / (2-4-51) सन्परे चपरे च णौ इङो गाा स्यात् / अद्ध्यजीगपत् / अद्ध्यापिपत् / 2602 / सिद्यतेरपारलौकिके / (6-1-49) ऐहलौकिकेऽर्थे विद्यमानस्य सिद्ध्यतेरेच आत्त्वं स्याण्णौ / अन्नं साधयति / निष्पादयतीत्यर्थः / 'अपारलौकिके' किम् / तापस: सिद्ध्यति / तत्वं निश्चिनोति / तं प्रेरयति सेधयति तापसं तपः। 2603 / प्रजने वीयतेः / (6-1-55) अस्यैच आत्त्वं वा स्याण्णौ प्रजनेऽर्थे / वापयति-वाययति वा गाः पुरोवातः / गर्भ ग्राहयतीत्यर्थः / ऊदुपधाया गोहः' (सू 2364) / गृहयति / णौच संश्चङोः // विषयसप्तमीयमित्याकरे स्पष्टम्। णौ विवक्षिते इति लभ्यते / 'इडश्च' इत्यतः इड इति 'गाङ् लिटि' इत्यतो गाङिति 'विभाषा लुङ्लङोः' इत्यतो विभाषेति चानुवर्तते / तदाह / सन्परे चड्परे चेत्यादि // सन्परे चङपरे च णौ विवक्षिते इत्यर्थः / वेत्यादि / अध्यजीगपदिति // णौ इङो गाङादेशे पुकि उपधाहस्वे अधि गप् इ अ त् इति स्थिते गाप इत्यस्य द्वित्वे हलादिशेषे अभ्यासहस्वे सन्वत्त्वादित्त्वे दीर्घ अभ्यासचुत्वे रूपम् / नच द्वित्वे कार्ये 'णावजादेशो न' इति द्वित्वात् प्राक् गाडादेशनिषेधः शङ्कयः। अभ्यासोत्तरखण्डे अवर्णसत्त्व एव तनिषेधप्रवृत्तेरुक्तत्वात् / द्वित्वे कार्ये गाडादेशस्य निषेधे सति गाङः पूर्व 'अजादेर्द्वितीयस्य' इति णिच एव द्वित्वे सति प्रक्रियायां परिनिष्ठिते वा धातोरुत्तरखण्डे अवर्णाभावादिति भावः / गाङभावे ‘क्रीजीनां णौ' इत्यात्त्वे पुकि अधि आ इ अत् इति स्थिते पि इत्यस्य द्वित्वे रूपमिति भावः / सिद्ध्यतेरपारलौकिके // 'आदेच उपदेशे' इत्यस्मादादेच इति ‘क्रीजीनाम् ' इत्यस्माण्णाविति चानुवर्तते / तदाह / ऐहलौकिके इत्यादि // अन्नमिति // तनिष्पादनं तृप्त्यर्थत्वादैहलौकिकमिति भावः / तत्त्वमिति // आत्मस्वरूपमित्यर्थः / सेधयति तापसं तपः इति // तत्त्वनिश्चाययतीत्यर्थः / आत्मतत्त्वनिश्चयः आमुष्मिकफलक इति भावः / प्रजने वीयतेः // 'आदेच उपदेशे' इत्यस्मादादेच इति ‘चिस्फुरोः' इत्यतो णाविति ‘विभाषा लीयतेः' इत्यतो विभाषेति चानुवर्तते / तदाह / अस्यैच इत्यादि // वीयतेरिति न श्यना निर्देश: ‘वी गतिप्रजनस्थानार्जनोपार्जनेषु' इत्यस्य लुग्विकरणस्थत्वात् / किन्तु यका निर्देशोऽयम् / तेन व्येोऽपि ग्रहणम् / तस्यापि सम्प्रसारणे वीधातुना तुल्यत्वादिति केचित् / वस्तुतस्तु व्येत्रो न ग्रहणम् / तस्य प्रयोजनार्थकत्वाभावात् / तस्य णौ 'शाच्छासा' इति पुगपवादयुग्विधानेन व्याययतीति रूपे विशेषाभावाचेति शब्देन्दुशेखरे प्रपञ्चितम् / गर्भङ्ग्राहयतीति // पुरोवातकाले गावो गर्भअ॒हन्तीति प्रसिद्धिः / अथ ‘गुहू संवरणे' इत्यस्य गुणनिमित्ते. अजादौ प्रत्यये परे उपधाया ऊत्त्वविधिं स्मारयति / ऊदुपधाया गोहः इति / गृहयतीति // लघूपधगुणापवादः For Private And Personal Use Only