________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 320 सिद्धान्तकौमुदीसहिता [णिच् आभ्यां ण्यन्ताभ्यामात्मनेपदं स्याद्धेतोश्चेद्यस्मयौ / सूत्रे भयग्रहणं धात्वर्थोपलक्षणम् / मुण्डो भापयते / 2595 / भियो हेतुभये षुक् / (7-3-40) 'भी' 'ई' इति ईकारः प्रश्लिष्यते / ईकारान्तस्य भियः षुक्म्याण्णौ हेतुभये / भीषयते / 2596 / नित्यं स्मयतेः। (6-1-57) स्मयतेरेचो नित्यमात्वं स्याण्णौ हेतोः स्मये / जटिलो विस्मापयते / हेतोश्चेद्भयस्मयावित्युक्तेर्नेह / कुञ्चिकयैनं भापयति / विस्माययति / कथं तर्हि 'विस्मापयन्विस्मितमात्मवृत्तौ' इति / 'मनुष्यवाचा' इति करणादेव हि तत्र इत्यतः आत्मनेपदमिति ‘णेरणौ' इत्यतो णेरिति चानुवर्तते / हेतुः प्रयोजकः / तदाह / आभ्यां ण्यन्ताभ्यामित्यादि // अकञभिप्रायार्थमिदम् / ननु हेतोश्चेत् भयस्मयावित्यनुपपन्नम् / सूत्रे स्मयग्रहणाभावादित्यत आह / सूत्रे भयेति // सूत्रे भयग्रहणं स्मि धात्वर्थस्य स्मयस्याप्युपलक्षणमित्यर्थः / मुण्डो भापयते इति // अत्र आत्त्वं पुक् आत्मनेपदश्च / भिय आत्त्वाभावपक्षे विशेषमाह / भियो हेतुभये षुक् // भी ई इति द्वयोस्सवर्णदीर्घे भीशब्दात् षष्ठीति भावः / इदञ्च स्थानिवत्सूत्रे भाष्ये स्पष्टम् / ईकारप्रश्लेषलब्धमाह / ईकारान्तस्येति // तेन आत्त्वपक्षे न पुगिति फलितम् / णाविति // ‘अर्तिही' इत्यतस्तदनुवृत्तेरिति भावः / नित्यं स्मयतेः // 'आदेच उपदेशे' इत्यतः एच इति, आदिति, चानुवर्तते / 'चिस्फुरोः' इत्यतो णाविति ‘बिभेतर्हेतुभये' इत्यतः हेतुभये इति च / तत्र भयग्रहणं स्मयस्याप्युपलक्षणम् / अत्र तु स्मय एव विवक्षितः / स्मयतेीत्यर्थकत्वासम्भवात् / तदाह / स्मयतेरेच इत्यादि // ‘विभाषा लीयतेः' इत्यतो विभाषानुवृत्तिनिवृत्तये नित्यग्रहणम् / अथ “विभेतेहेतुभये' इति 'नित्यं स्मयतेः' इति च आत्-विधौ ‘भीस्म्योर्हेतुभये' इति आत्मनेपदविधौ च हेतुग्रहणस्य प्रयोजनमाह / हेतोश्चत् भयस्मयावित्युक्तेनेहेति / कुश्चिकयैनमिति // केशबन्धविशेषः कुश्चिका / तस्याश्च करणतया प्रयोजककर्तृत्वाभावात् आत्त्वं षुक् च नेति भावः / आक्षिपति कथमिति / रघुवंशकाव्ये “तमार्यगृह्यं निगृहीतधेनुं मनुष्यवाचा मनुवंशकेतुम् / विस्मापयन्विस्मितमात्मवृत्तौ सिंहोरुसत्वन्निजगाद सिंहः॥” इति श्लोके विस्मापयन्निति कथमित्याक्षेपः / प्रयोजकाद्रयाभावेन आत्त्वपुगनुपपत्तेरिति भावः / ननु मनुष्यवागेव तत्र प्रयोजिकेत्यत आह / मनुष्येति // मनुष्यवाचेति तृतीयान्तगम्यकरणात् मनुष्यवागात्मकादेव हि तत्र स्मयः / ननु करणभूतापि मनुष्यवाक् प्रयोजिका कुतो नेत्यत आह / अन्यथेति // मनुष्यवाचः स्मयप्रयोजकत्वमभ्युपगम्य आत्त्वाश्रयणे 'भीस्म्योर्हेतुभये' इत्यात्मनेपदमपि स्यादित्यर्थः / स्मयोऽत्र प्रयोजकमूलको नेति युक्तमेव / किन्त्वात्त्वपुगाक्षेपो न For Private And Personal Use Only