________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / इति सुब्धातुप्रकरणे उदाहरिष्यते / ण्यन्ताणिच् / पूर्वविप्रतिषेधादपवादत्वाद्वा वृद्धिं बाधित्वा णिलोपः / चोरयति / ' णौ चङि-' (सू 2314) इति ह्रस्वः / ‘दीलघोः' (सू 2318) / न चाग्लोपित्वात् द्वयोरप्यसम्भवः / ण्याकृतिनिर्देशात् / अचूचुरत् / 2579 / णौ च संश्चङोः / (6-1-31) सन्परे चङ्परे च णौ श्वयतेः सम्प्रसारणं वा स्यात् / 'सम्प्रसारणं तदाश्रयञ्च कार्य बलवत्' (प 129) इति वचनात्सम्प्रसारणं पूर्वरूपम् / अशुशवत् / अलघुत्वान्न दीर्घः / अशिश्वयत् / ननु 'चुर स्तेये' इत्यस्मात्स्वार्थे णिचि उपधागुणे चोरि इति रूपम्। तस्माद्धेतुमण्णौ प्रथमस्य णेर्लोपे सति चोरि इत्येव हेतुमण्ण्यन्तम्। तस्माल्लटि तिपि शपि गुणे अयादेशे चोरयतीत्येव रूपमिष्यते। तन्नोपपद्यते / हेतुमण्णौ परे प्रथमस्य णेर्लोपं बाधित्वा परत्वादृद्धौआयादेशे चोराय् इ इत्यस्माल्लटि चोराययतीत्यापत्तेरित्यत आह / ण्यन्ताणिजिति // ण्यन्ताणिचि वृद्धिम्बाधित्वा णिलोपइत्यन्वयः / कुत इत्यत आह / पूर्वविप्रतिषेधादिति // " ण्यल्लोपावियङ्यणगुणवृद्धिदीर्घभ्यः पूर्वविप्रतिषेधेन" इति वार्तिकेनेति भावः। अपवादत्वाद्वेति // 'कमु कान्तौ' इति धातौ द्विधा प्रपञ्चितत्वादिति भावः / अथ ण्यन्ताण्णौ प्रथमस्य गेलं.पे चोरि इत्यस्माल्लुडि चङि अचोर् इ अत् इति स्थिते प्रक्रियान्दर्शयति / णौ चङीति // ह्रस्वः इति // ततः हेतुमण्णोंपे चुर् इत्यस्य द्वित्वे सन्वद्भावविषयत्वादाह / दी? लघोरिति // तथाच अचूचुरदिति सिद्धम् / ननु उपधाहस्वः अभ्यासदीर्घश्चेति द्वयमपि चङ्परे णौ विहितम् / तदुभयमप्यत्र प्रत्ययलक्षणमाश्रित्य प्रथमणिचमादाय न सम्भवति / तस्य द्वितीयणिचा व्यवहितत्वेन चङ्परकत्वाभावात् / नापि द्वितीयणिचमादाय तदुभयसम्भवः / द्वितीयणिच्प्रकृतेः प्रथमण्यन्तस्य णिलोपमादाय अग्लोपित्वादित्याशङ्कय परिहरति / न चेति // अग्लोपित्वात द्वयोरपि उपधाहूस्वाभ्यासदीर्घयोरसम्भवो न शङ्कय इत्यर्थः / कुत इत्यत आह / ण्याकृतिनिर्देशादिति // चपरे णावित्यत्र णावित्यस्य चपरकणित्त्वजाल्याश्रयैकानेकणिज्व्यक्तिपरकत्वं विवक्षितम् / तथाच णिद्वयस्य चपरकत्वाभावेऽपि णित्त्वस्य चङ्परकत्वमस्तीति इस्वदीर्घयोरस्ति प्रवृत्तिरिति भावः / अत्र जातिनिर्देशः अयुक्त इति शब्देन्दुशेखरे प्रपञ्चितम् / 'टु ओ श्वि गतिवृद्ध्योः' / अस्माद्धेतुमण्णौ वृद्ध्यायादेशयोः श्वायीत्यस्मात् लडादौ श्वाययतीति रूपम् / लुङि चङि अश्वि इ अत् इति स्थिते विशेषमाह / णौ च संश्चङोः // 'विभाषा श्वेः' इति सूत्रमनुवर्तते। 'प्यडस्सम्प्रसारणम्' इत्यतस्सम्प्रसारणमिति च। तदाह / सन्पर इत्यादिना // नन्वन्तरङ्गत्वात् सम्प्रसारणात्पूर्व वृद्ध्यायादेशयोः कृतयोः पश्चात् सम्प्रसारणे पूवरूपे अशुश्वयदिति स्यात् , अशूशवदिति न स्यात्, इत्यत आह / सम्प्रसारणन्तदाश्र. यञ्च कार्य बलवदिति // इदं वचनं 'लिट्यभ्यासस्य' इति सूत्रभाष्ये स्थितम् / 40 For Private And Personal Use Only