________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | श्रीरस्तु। // अथ तिङन्तणिप्रकरणम् // 2575 / तत्प्रयोजको हेतुश्च / (1-4-55) कर्तुः प्रयोजको हेतुसंज्ञ: कर्तृसंज्ञश्च स्यात् / 2576 / हेतुमति च / (3-1-26) प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोणिच्स्यात् / भवन्तं प्रेरयति भावयति / णिचश्च' (सू 2564) इति कर्तृगे फले आत्मनेपदम् / भावयते / भावयाम्बभूवे / अथ ‘हेतुमति च' इति णिज्विाधं वक्ष्यन् हेतुसंज्ञा आह / तत्प्रयोजको हेतुश्च // 'स्वतन्त्रः कर्ता' इति पूर्वसूत्रोपात्तः कर्ता तच्छब्देन परामृश्यते / तस्य कर्तुः प्रयोजकः प्रवर्तयिता तत्प्रयोजकः / तदाह / कतःप्रयोजको हेतुसंज्ञ इति // चकारः पूर्वसूत्रोपात्तां कर्तृसंज्ञां समुच्चिनोति / तदाह / कर्तृसंशश्चेति // देवदत्तः पचति तं प्रेरयति यज्ञदत्तः इत्यत्र देवदत्तस्यैव पाकानुकूलव्यापारात्मकपचधात्वर्थाश्रयत्वरूपकर्तृत्वसत्त्वात् प्रयोजकस्य तदभावादिह कर्तृसंज्ञाविधिः। प्रयोजकस्य प्रयोज्यका अन्यथा सिद्धत्वाद्धेतुत्वाप्राप्तौ हेतुसंज्ञाविधिः। हेतुमति च // 'सत्यापपाश' इत्यतो णिजित्यनुवर्तते। हेतुः प्रयोजकः आधारतया अस्यास्तीति हेतुमान् प्रयोजकनिष्ठः प्रेषणादिव्यापारः तस्मिन् वाच्ये णिच् स्यादित्यर्थः / 'धातोरेकाचो हलादेः' इत्यतो धातोरित्यनुवर्तते / तदाह / प्रयोजकव्यापार इति // प्रेषणादावित्यादिशब्देन अद्ध्येषणानुमत्युपदेशादीनां ग्रहणम् / तत्र भृत्यादेनिकृष्टस्य प्रवर्तना प्रेषणम् / आज्ञेत्यर्थः / समानस्याधिकस्य च सख्याचार्यादेः प्रवर्तना अध्येषणा। अनुमतिः राजादेः सम्मतिः / ज्वरितस्य कषायपाने हितावबोधनेन प्रवर्तना उपदेशः। हननाद्भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः / प्रयोजकनिष्टप्रवर्तनायां णिजिति फलितम् / एते तु विशेषाः प्रकरणादि न अवगम्यन्ते / कुलालो घटङ्करोतीत्यत्र तु न णिच् / प्रयोज्यप्रयोजकोभयसमभिव्याहार एव तत्प्रवृत्तेः इत्यन्यत्र विस्तरः / भवन्तमिति // देवदत्तो यज्वा भवति / तम्प्रेरयति याजक इत्याद्यर्थे भूधात्वर्थस्य भवनस्य मुख्यकर्ता यज्वा तस्य यज्वभवने प्रवर्तयिता याजकादिः प्रयोजकः तनिष्ठायां प्रेरणायां भूधातोणिच् वृद्ध्यावादेशौ / भावीति णिजन्तम्। तस्माद्भवनानुकूलव्यापारार्थकात् लटि भावयतीति रूपम् / भवन्तम्प्रेरयतीति फलितोऽर्थः / भावयाम्बभूवे इति // कर्तृगामिति क्रियाफले णिजन्तस्यात्मनेपदित्वात् अनुप्रयुज्यमाना For Private And Personal Use Only