________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 310 सिद्धान्तकौमुदीसहिता ग्रन्थे स्थिताः / ‘णिङङ्गान्निरसने' (ग सू 209) / अङ्गवाचिनः प्रातिपदिकान्निरसनेऽर्थे णिङ् स्यात् / हस्तौ निरस्यति / हस्तयते / पादयते / * श्वेताश्वाश्वतरगालोडिताबरकाणामश्वतरेतकलोपश्च' (ग सू 210) / श्वेताश्वादीनां चतुर्णामश्वादयो लुप्यन्ते, णिङ् च धात्वर्थे / श्वेताश्वमाचष्टे, तेनातिकामति, वा श्वेतयते / अश्वतरमाचष्टे अश्वयते / गालोडितं वाचां विमर्शः। तत्करोति गालोडयते / आह्वरयते / केचित्तु णिचमेवानुवर्तयन्ति तन्मते परस्मैपदमपि / 'पुच्छादिषु धात्वर्थे इत्येव सिद्धम्' (ग सू 211) / णिजन्तादेव बहुलवचनादात्मनेपदमस्तु / मास्तु 'पुच्छभाण्ड-' (सू 2676) इति णिविधिः / सिद्धशब्दो ग्रन्थान्ते मङ्गलार्थः / इति तिङन्तचुरादिप्रकरणम् / बहुळग्रहणादस्माल्लभ्यत इत्यर्थः / मतान्तरमाह / चुरादिभ्य एवेति // वस्तुतस्तु भूवादिसूत्रे पाठेन धातुसंज्ञेति भाष्यप्रतीकमुपादाय स पाठो नोपलक्षणार्थः किन्तु इयत्ताप्रतिपादनार्थ इति कैयट आह / एवञ्च ‘बहुळमेतन्निदर्शनम्' इति गणसूत्रमनार्षमिति शब्देन्दुशेखरे स्थितम् / 'णिङङ्गानिरसने' इति // गणसूत्रम् / स्पष्टम् / डित्त्वानित्यमात्मनेपदम् / श्वेताश्वाश्वतरगालोडिताबरकाणामश्वतरेतकलोपश्च // इदमपि गणसूत्रम् / श्वेताश्वादीनामिति // श्वेताश्व अश्वतर गालोडित आह्वरक एषामित्यर्थः / अश्वादय इति // श्वेताश्वशब्दे अश्वशब्दः, अश्वतरशब्दे तरशब्दः, गालोडितशब्दे इतशब्दः, आह्वरकशब्दे कशब्दश्च लुप्यन्ते इत्यर्थः / णिङ् चेति // चकारलभ्यमिदम् / धात्वर्थे इति // 'प्रातिपदिकाद्धात्वर्थे ' इत्यतस्तदनुवर्तते / निरसने इति निवृत्तमिति भावः / विमर्श इति // विवेचनमित्यर्थः / केचित्त्विति // श्वेताश्वेत्यादिसूत्रे णिचमेवानुवर्तयन्ति न तु थिङ मित्यर्थः / णिणिडोः फलभेदं दर्शयति / तन्मते इति // पुच्छादिषु धात्वर्थ इत्येव सिद्धमिति // धातुपाठं रचयितुर्भीमसेनस्य वाक्यमिदमित्याहुः / 'प्रातिपदिकाद्धात्वर्थे' इति णिचि सिद्धे ‘पुच्छभाण्डचीवराण्णिङ्' इति न कर्तव्यमित्यर्थः / ननु नित्यात्मनेपदार्थ 'पुच्छ भाण्ड' इति णिविधिरावश्यक इत्यत आह। णिजन्तादेव बहुळवचनादिति // बहुळमेतन्निदर्शनम्' इति बहुळग्रहणादित्यर्थः / ननु पुच्छादिषु धात्वर्थ इत्येव णिजित्येव सिद्धे सिद्धशब्दो व्यर्थ इत्यत आह / सिद्धशब्द इति // धातुपाठात्मकग्रन्थसमाप्तौ सिद्धशब्द. प्रयोगो मङ्गलार्थ इत्यर्थः / पस्पशाह्निकभाष्ये हि सिद्धे शब्दार्थसम्बन्धे इति वार्तिकग्रन्थस्यादिमवार्तिकव्याख्यावसरे सिद्धशब्दोपादानं मङ्गळार्थमित्युक्तम् / मङ्गळादीनि मङ्गळमध्यानि मङ्गळान्तानि च शास्त्राणि प्रथन्ते इति भूवादिसूत्रस्थभाष्यान्थान्तेऽपि मङ्गळस्य कर्तव्यतासिद्धिः॥ इति श्रीवासुदेवदीक्षितविरचितायां बालमनोरमायां चुरादिनिरूपणं समाप्तम् / For Private And Personal Use Only