________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [चुरादि अपपटत् / तत्करोति तदाचष्टे' (ग सू 204) / पूर्वस्यैव प्रपञ्चः / करोत्याचष्टे इति धात्वर्थमात्रं णिजर्थः / लडर्थस्त्वविवक्षितः / तेनातिकामति' (ग सू 205) / अश्वेनातिकामति अश्वयति / हस्तिनातिकामति हस्तयति / 'धातुरूपं च' (ग सू 206) / णिच्प्रकृतिर्धातुरूपं प्रतिपद्यते / चशब्दोऽनुक्तसमुचयार्थः / तथा च वार्तिकम्-आख्यानात्कृतस्तदाचष्टे कुल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम्' (वा 1766) इति / कंसवधमाचष्टे कंसं घातयति / इह 'कंसं हन्' इ इति स्थिते / इति सूत्रभाष्यं त्वेकदेश्युक्तिरिति प्रपञ्चितम् / अत्र पुवद्भावादिकमुदाह्रियते / एनीमाचष्टे एतयति / पुंवद्भावात् डीन्नकारयोनिवृत्तिः / दृढमाचष्टे द्रढयति ‘र ऋतः' इति रभावः / स्रग्विणमाचष्टे स्त्रजयति / विन्मतोरिति विनो लुक् / गोमन्तमाचष्टे गवयति / मतुपो लुक् / अङ्गवृत्तपरिभाषया न वृद्धिः / प्रियमाचष्टे प्राययति / स्थिरमाचष्टे स्थापयति, इत्यादिषु यणादिलोपप्रस्थस्फाद्यादेशाः / अत्र वृद्धिर्भवत्येव / द्वयोरिति निर्देशेन अङ्गवृत्तपरिभाषाया अनित्यत्वाश्रयणात् / स्रग्विणमाचष्टे स्रजयति / सुबन्तात् विहितस्य विनो लुकि अन्तर्वर्तिविभक्त्या पदत्वात् प्राप्तङ्कुत्वं भत्वान्न भवति / तत्करोति तदाचष्टे / इदमपि चुरादिगणसूत्रम् / प्रातिपदिकादित्य. नुवर्तते / तत्करोति तदाचष्टे इति चार्थे प्रातिपदिकाणिच् स्यादित्यर्थः / आचारक्विविव प्रातिपदिकादेवेदम् / ननु 'प्रातिपदिकाद्धात्वर्थे' इत्येव सिद्धे किमर्थमिदमित्यत आह / पूर्वस्यैव प्रपश्च इति // ननु करोति आचष्टे इति वर्तमाननिर्देशादकरोदित्याद्यर्थेषु न स्यादित्यत आह / करोत्याचष्टे इत्यादि // लडर्थ इत्युपलक्षणं भूते भविष्यति द्वित्वे बहुत्वे च प्रत्ययो भवत्येव / तेनातिकामति / इदमपि गणसूत्रम् / 'प्रातिपदिकाद्धात्वर्थे ' इत्यस्यैव प्रपञ्चः। वाचा अतिक्रामति वाचरति इत्यत्र कुत्वन्तु न शङ्कयम् / असुबन्तादेव प्रातिपदिकात् प्रत्ययोत्पत्तेः / धातुरूपञ्चेति // इदमपि गणसूत्रम् / णिच्प्रकृतिरिति प्रतिपद्यते इति चाध्याहृत्य व्याचष्टे। णिचप्रकृतिर्धातुरूपम्प्रतिपद्यते इति // ननु प्रातिपदिकात् धात्वर्थे णिच् भवति णिचप्रकृतिर्धातुरूपञ्च प्रतिपद्यते इति प्रतीयमानार्थाश्रयणे भुक्तमाचष्टे भुक्तयतीति न स्यात् / भुक्तशब्दस्य भुजधातुरादेशः स्यादित्यत आह / चशब्दोऽनुक्तसमुच्चयार्थः इति // किमनुक्तं समुच्चीयते इत्यत आह / तथाच वार्तिकमिति // आख्यानात् कृत इति // 'हेतुमति च' इति सूत्रे इदं वार्तिकं स्थितम् / आख्यानं वृत्तकथाप्रबन्धः / तद्वाचिनः कृदन्तात् कंसवधादिशब्दात् तदाचष्टे इत्यर्थे णिचि कृते णिच्प्रकृत्यवयवभूतस्य कृतः लुक् तस्यैव कृतः या प्रकृतिः हनादिधातुरूपा तस्याः प्रत्यापत्तिः आदेशादिविकारपरित्यागेन स्वरूपेणावस्थानम्भवतीत्यर्थः / प्रकृतिवच्च कारकम् इत्यंशस्तु मूल एव व्याख्यास्यते / कंसवधमाचष्टे कंसं घातयतीत्युदाहरणम्। हननं वधः 'हनश्च वधः' इति भावे हनधातोः अप्प्रत्ययः प्रकृतेः वधादेशश्च / कंसस्य वधः कंसवधः तदन्वाख्यानपरवाक्यसन्दर्भो विवक्षितः। तमाचष्टे इत्यर्थे णिच् / अप्प्रत्ययस्य कृतो लुक्प्रकृतिभूतस्य हनधातोर्वधादेशस्य च निवृत्तिः / तथाच फलितं दर्शयति / इह कंसं हन् इ इति स्थिते इति // For Private And Personal Use Only