________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् . बालमनोरमा / स्याद्वित्वे कार्ये' इति / 'यत्र द्विरुक्तावभ्यासोत्तरखण्डस्याऽऽप्रक्रियायां परिनिष्ठिते रुपे वावर्णो लभ्यते, तत्रैवायं निषेधः' / ज्ञापकस्य सजातीयापेक्षत्वात् / तेन * अचिकीर्तत् इति सिद्धम् / प्रकृते तु 'न' शब्दस्य द्वित्वम् / तत उत्तर इको झलिति सनः कित्त्वात् श्रयुकः कितीति प्राप्तमिनिषेधम्बाधित्वा 'स्मिपूज्वशां सनि' इति सनीवन्तर्द्धभ्रस्जदम्भुश्रिस्यूर्णभरज्ञपिसनामिति च सूत्राभ्यामिटि कृते इडादेस्सनो द्वित्वनिमित्तत्वेन इटोऽपि द्वित्वनिमित्ततया 'द्विवचनेऽचि' इति गुणावादेशयोनिषेधे सति पू यु इत्यनयोर्द्वित्वे अभ्यासे अकाराभावेन 'सन्यतः' इत्यस्याप्रवृत्त्या तत्र इत्त्वार्थे पययो. रित्यावश्यकम् / वर्गप्रत्याहारजकारग्रहणन्तु द्वित्वे कार्ये णावच आदेशो नेत्यनाश्रयणे व्यर्थमेव / तदाश्रयणे तु बिभावयिषतीत्यादिषु णिचि लुप्ते सति ‘चङि' इति द्वित्वे कार्ये प्रत्ययलक्षणमाश्रित्य णिचि गुणावादेशयोः प्रतिषेधे सति उवर्णान्तानान्द्रित्वे अभ्यासे अकाराभावेन ‘सन्यतः' इत्यस्याप्रवृत्त्या वर्गप्रत्याहारजकारग्रहणमर्थवत् / अतः द्वित्वे कार्ये णावच आदेशो नेति विज्ञायते इत्यर्थः / ननु ‘कृत संशब्दने' अस्मात् णौ 'उपधायाश्च' इति ऋत इत्त्वे रपरत्वे किरत् इत्यस्मात् लुङि चङि णिलोपे द्वित्वे अभ्यासे उरदत्त्वे हलादिशेष कस्य चुत्वे उत्तरखण्डे इकारस्य -- उपधायाश्च' इति दीर्घ अचिकीर्तदिति रूपमिष्यते। तन्न युज्यते / द्वित्वे कर्तव्ये णावच आदेशस्य निषिद्धतया इत्त्वात्प्रागेव कृत् इत्यस्य द्वित्वे, उरदत्त्वे, रपरत्वे, हलादिशेषे, कस्य चुत्वे, उत्तरखण्टे ऋत इत्त्वे रपरत्वे, उपधादीर्घ, अचिकीर्तदित्यापत्तेरित्यत आह / यत्र द्विरुक्तावित्यादि // यत्र धातौ चङि द्विवंचने कृते अभ्यासोत्तरखण्डस्य आद्योऽच् अवर्णो लभ्यते तत्रैव द्वित्वे कार्य णावच आदेशो नेत्ययं निषेध इत्यन्वयः / यद्यपि धातोरवयवस्य एकाचो द्वित्वे कृते अभ्यासोत्तरखण्डे द्वितीयस्याचोऽभावादाद्योऽजिति व्यर्थमेव / तथापि स्पष्टार्थन्तदित्याहुः / नन्वभ्यासोत्तरखण्डस्याद्योऽजवर्णो लभ्यते इत्यत्र किं वर्णः द्वित्वप्रवृत्तिवेलायां विवक्षितः उत परिनिष्ठिते रूपे विवक्षितः / नाद्यः / क्षुधातोर्ण्यन्तात् सनि चुक्षावयिषतीत्यत्र क्षु इत्यस्य द्वित्वे कृते अभ्यासोत्तरखण्डे प्रक्रियादशायामवर्णाभावेन वृद्ध्यावादेशयोनिषेधाप्रवृत्त्या द्वित्वात् प्रागेव परत्वाद्ध्यावादेशयोः क्षाव् इत्यस्य द्वित्वे चिक्षावयिषतीत्यापत्तेः / न द्वितीयः / ऊन इ अ त् इति स्थिते सति न इत्यस्य द्वित्त्वे अभ्यासोत्तरखण्डे अल्लोपे सत्यवर्णाभावेन णौ अल्लोपस्य निषेधाप्रवृत्त्या द्वित्वात् प्रागेव परत्वादतो लोपे सति नि इत्यस्य द्वित्वे औनिनदित्यापत्तेरित्यत आह / प्रक्रियायां परिनिष्ठिते रूपे वेति // न त्वमुकत्रैवेत्याग्रह इति भावः / सजातीये पुयजा अम्यासोत्तरखण्डे अवर्णपरत्वनियमादिति भावः / सिद्धमिति // प्रक्रियायां परिनिष्ठिते वा उत्तरखण्डे अवर्णाभावादृत इत्त्वस्य न निषेध इति भावः / एवं च चुक्षावयिषति इत्यत्र क्षु इत्यस्य द्वित्वे प्रक्रियादशायामभ्यासोत्तरखण्डे अवर्णाभावेऽपि परिनिष्टिते रूपे तत्सत्त्वात् णौ गुणावादेशयोर्भवत्येव द्वित्वे कार्ये निषेधः / औननदित्यत्रापि णौ भवत्येवाल्लोपस्य निषेध इत्याह / प्रकृते विति // औननदित्यत्रेत्यर्थः / नशब्दस्येति // अल्लोपात्प्रागेव नशब्दस्य द्वित्वाश्रयणे प्रक्रियादशायामुत्तरखण्डे अवर्णलाभादल्लोपस्य निषेधे सति नशब्दस्यैव For Private And Personal Use Only