________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 302 सिद्धान्तकौमुदीसहिता [चुरादि उपधारणमभ्यासः / साम 1880 सान्त्वप्रयोगे / अससामत् / 'साम सान्त्वने' इत्यतीतस्य तु असीषमत् / वेल 1881 कालोपदेशे / वेलयति / 'काल' इति पृथग्धातुरित्येके / कालयति / पल्पूल 1882 लवनपवनयोः / वात 1883 सुखसेवनयोः / 'गतिसुखसेवनेषु' इत्येके / वातयति / अववातत् / गवेष 1884 मार्गणे / अजगवेषत् / वास 1885 उपसेवायाम् / निवास 1886 'आच्छादने' / अनिनिवासत् / भाज 1887 पृथकर्मणि / समाज 1888 प्रीतिदर्शनयोः / प्रीतिसेवनयोः' इत्यन्ये / सभाजयति / ऊन 1889 परिहाणे / ऊनयति / ‘ओः पुयजि-' (सू 2577) इति सूत्रे ‘पययोः' इति वक्तव्ये वर्गप्रत्याहारजकारग्रहो लिङ्गं : णिचि अच आदेशो न अससामदिति // अल्लोपस्य स्थानिवत्त्वान्नोपधाहस्वः / ननु साम सान्त्वने इति कथादेः प्राक् चुरादौ पाठो व्यर्थः अनेनैव सिद्धेः इत्यत आह / साम सान्त्वने इत्यतीतस्य तु असीषमदिति // पूर्वपठिते सामधातौ मकारादकारस्य उच्चारणार्थतया च उपधाइस्वः दीर्घसन्वत्त्वे चेत्यर्थः / यद्यपि साम सान्त्वप्रयोगे इत्येव प्राक् चुरादौ पठितम् / तथापि सान्त्वनस्य सामप्रयोगादनन्यत्वात्तथोक्तिरिति भावः / गवेष मार्गणे / मार्गणं अन्वेषणम् / चङि अल्लोपस्य स्थानिवत्त्वान्नोपधाहस्वः / तदाह / अजगवेषदिति // 'निवास आच्छादने' / अनिनिवासत् / 'ऊन परिहाणे' परिहाणन्यूनीभावः / ऊनयतीति // णावतो लोप इति भावः / ननु लुङि चङि ऊन इ अत् इ इति स्थिते णिलोपे 'चडि' इत्यजादेद्वितीयस्य नशब्दस्य द्वित्वे अतो लोपे अग्लोपित्वेन सन्वत्त्वाभावादभ्यासे इत्वदीर्घयोरभावे आटो वृद्धौ औननदिति रूपं वक्ष्यति / तदनुपपन्नम् / द्वित्वात्प्रागेव परत्वादतो लोपे कृते निशब्दस्य द्वित्त्वे औनिनादित्येवमभ्यासे इकारश्रवणप्रसङ्गात् / नच द्वित्वे कार्ये अतो लोपस्य द्विवचनेऽचीति निषेधः शङ्कयः / अल्लोपनिमित्तस्य णिचो द्वित्वनिमित्तत्वाभावात् इत्यत आह / ओः पुयण्जीत्यादि // ओ:पुयणज्यपरे इति सूत्रे ओः पययोरपरयोरित्येव वक्तव्ये पु इति पवर्गस्य यणिति प्रत्याहारस्य जकारस्य च ग्रहणं लिङ्गमित्यन्वयः / कुत्र लिङ्गमित्यत आह / णिचीत्यादि // द्वित्वे कॉर्थ णिज्निमित्तकः अच आदेशो न स्यादित्यत्र लिङ्गमिति पूर्वेणान्वयः / तथाहि / ओः पुयण ज्वपर इति सूत्रम् / सनि परे यदङ्गन्तदवयवाभ्यासोवर्णस्य इकारस्स्यात् अवर्णपरकेषु पवर्गयण्जकारेषु परत इति तदर्थः / पूङ् पिपावयिषति / भू बिभावयिषति / यु यियावयिषति / रु रिरावयिषति / लूञ् लिलावयिषति। जु जिजावयिषति / इत्युदाहरणानि। अत्र द्वित्वम्प्रत्यानिमित्ते णिचि 'द्विर्वचनेऽचि' इति निषेधाप्रवृत्त्या द्वित्वात् प्रागेव परत्वादृद्ध्यावादेशयोः कृतयोः अभ्यासेष्वाकारस्य हस्ते सति 'सन्यतः' इत्येव इत्त्वसिद्धेः पवर्गयणप्रत्याहारजकारग्रहणं व्यर्थम् / ओः पययोरपरयोः इत्येव सूत्रमस्तु / पकारयकारग्रहणन्तु न व्यर्थम् / पिपावयिषति यियावयिषतीत्यत्र उक्तरीत्या 'सन्यतः' इति इत्वसिद्धावपि पिपविषते यियविषतीत्यत्र पूधातोयुधातोश्च अण्यन्तात् 'सनि अभ्यासे' इत्त्वार्थं तदावश्यकत्वात् / तत्र हि For Private And Personal Use Only