________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 291 अचचहत् / 'चप' इत्येके / चपयति / रह 1628 त्यागे इत्येके / अरीरहत् / कथादेस्तु अररहत् / बल 1629 प्राणने / बलयति / चिञ् 1630 चयने / __2569 / चिस्फुरोणी / (6-1-54) / आत्त्वं वा स्यात् / 2570 / अतिहीन्लीरीक्नूयीक्ष्माय्यातां पुग्णौ। (7-3-36) / एषां पुक् स्याण्णौ / चपयति-चययति / जित्करणसामर्थ्यादस्य णिज्विकल्पः / चयते। प्रणिचयति-प्रनिचयति / नान्ये मितोऽहेतौ (ग सू 198) / अहेतौ स्वार्थे णिचि ज्ञपादिभ्योऽन्ये मितो न स्युः / तेन शमादीनाममन्तत्वप्रयुक्तं त्यादौ अल्लोपस्य स्थानिवत्त्वाद्वृद्ध्यभावे च मित्त्वाद्रस्वे च न विशेषः / तथापि अदन्तात् चडि णौ अल्लोपे सति अग्लोपितया सन्वत्त्वदीर्घयोरभावे अचचहदिति रूपमस्ति फलमित्यर्थः / चप इत्येके इति // 'चह परिकल्पने' इत्यस्य स्थाने 'चप' इत्येके पठन्तीत्यर्थः / ‘रह त्यागे' इत्येके इत्यपि तथैव व्याख्येयम् / एवञ्च ज्ञपादिषु पञ्चसु चहधातुः चपधातुः रहधातुर्वा अन्यतमस्तृतीयः, बलधातुश्चतुर्थः, चिञ्धातुः पञ्चमः, इति कृत्वा ज्ञपादिपञ्चानां मत. त्रयेऽपि पञ्चत्वात् ज्ञपादिपञ्चकत्वस्य न विरोधः / 'रह त्यागे' इत्यस्यापि कथादिपाठफलमाह / कथादेस्तु अररहदिति // अदन्तत्वेन अग्लोपित्वान्न दीर्घसन्वत्त्वे इति भावः / 'बल प्राणने च' इत्यनुवृत्त्या मित्त्वस्यानुकर्षणाद्रस्वं मत्वा आह / बलयतीति // चिस्फुरोर्णी // 'आदेच उपदेशे' इत्यतः आदिति ‘विभाषा लयितेः' इत्यतः विभाषेति चानुवर्तते इति मत्वा शेषं पूरयति / आत्त्वं वा स्यादिति // चिजो णिचि आत्त्वे चा इ इति स्थिते / अर्तिही // अर्ति ही ब्ली री क्नूयी क्ष्मायी आत् एषान्द्वन्द्वात् षष्टी / पुक् णौ इति छेदः / तदाह / एषां पुक् स्याण्णी इति // पुकि ककार इत् , उकार उच्चारणार्थः कित्त्वादन्तावयवः / चाप् इ इति स्थिते चेत्यनुवर्त्य मित्त्वस्यानुकर्षणेन मित्त्वाद्रस्वे चपि इत्यस्मात्तिबादी परिनिष्ठितमाह / चपयतीति // आत्त्वाभावपक्षे त्वाह / चययतीति // चेणिचि वृद्धा आयादेशे मित्त्वादुपधाहस्व इति भावः / ननु चिञ्धातोरिह जित्करणं व्यर्थम् / ण्यन्तात् णिचश्चेत्येव उभयपदसिद्धेः / चौरादिकस्यास्य नित्यं ण्यन्तत्वेन चयति चयते इति केवलस्याण्यन्तस्य शशशृङ्गायमाणत्वादित्यत आह / जित्करणसामर्थ्यादिति // एवञ्च णिजभाव. पक्षे उभयपदार्थमिह जित्करणमर्थव दिति भावः / ‘शेषे विभाषाकखादौ' इति णत्वविकल्प मत्मा आह / प्रणिचयति-प्रनिचयति इति // 'नान्ये मितोऽहेतौ' इति चुरादिगणसूत्रम् / अहेताविति च्छेदः / ' हेतुमति च ' इति सूत्रेण विहितो णिच् हेतुशब्देन विवक्षितः / स न भवत्यिहेतुः स्वार्थणिच् / तस्मिन्परे इति लभ्यते। किमपेक्षया अन्ये इत्याकांक्षायां इतः प्रापठितज्ञपादिचिजन्तेभ्य इति लभ्यते / तदाह / अहेतौ स्वार्थे णिचीत्यादिना // For Private And Personal Use Only