________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / श्रीरस्तु / // अथ तिङन्तचुरादिप्रकरणम् // चुर 1535 स्तेये। 2563 / सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वच वर्मवर्णचूर्णचुरादिभ्यो णिच् / (3-1-25) एभ्यो णिच् स्यात् / चूर्णान्तेभ्यः ‘प्रातिपदिकाद्धात्वर्थे–' (ग सू 203) इत्येव सिद्धे तेषामिह ग्रहणं प्रपञ्चार्थम् / चुरादिभ्यस्तु स्वार्थे / 'पुगन्त-' (सू 2189) इति गुणः / ‘सनाद्यन्ता:-' (सू 2304) इति धातुत्वं तिप्शबादि गुणायादेशौ / चोरयति / 2564 / णिचश्व / (1-3-74) ___ अथ स्वार्थिकणिजन्ताः चुरादिधातवो निरूप्यन्ते / चुर स्तेये इति // रेफादकार उच्चारणार्थः, न त्वित्संज्ञकः / प्रयोजनाभावात् / 'णिचश्च' इति पदव्यवस्थायां वक्ष्यमाणत्वाच / एवमग्रेऽपि / सत्याप // सत्याप पाश रूप वीणा तूल श्लोक सेना लोमन् त्वच वर्मन् वर्ण चूर्ण चुरादि एषान्द्वन्द्वात्पञ्चमी / तदाह / एभ्यो णिच् स्यादिति // कस्मिन्नर्थे इत्याकांक्षायामाह / चूर्णान्तेभ्यः इति // सत्यादिभ्यः चूर्णान्तेभ्या द्वादशभ्यः करोत्याचष्टे इत्याद्यर्थे ' प्रातिपदिकाद्धात्वर्थे बहुळम्' इति वक्ष्यमाणेन सिद्धमेवार्थनिर्देशनमिह निपातितमित्यर्थः / ननु तेनैव सिद्धत्वादिह चूर्णान्तानुक्रमणं व्यर्थमित्यत आह / तेषामिह ग्रहणं प्रपञ्चार्थमिति // नच तेभ्यः स्वार्थ एव णिज्विधिरस्त्विति वाच्यम् / “सत्यस्य तु कृञ्यापुक् निपात्यते। सत्यङ्करोति। सत्यापयति" इत्यादिभाष्यविरोधादिति भावः / नामधातुप्रकरणे सत्यादिचूर्णान्तानामुदाहरणानि मूल एव स्फुटीभविष्यन्ति / चुरादिभ्यस्तु स्वार्थे इति // अर्थान्तरस्यानिर्देशादिति भावः। अत्र 'भातोरेकाचः' इत्यतो धातोरित्यनुवर्तते / चुरादिभ्यो धातुभ्यः णिजिति फलितम् / ततश्च णिच आर्धधातुकत्वं सिद्ध्यति / अन्यथा धातोरिति विहितत्वाभावादार्धधातुकत्वं न स्यादिति बोध्यम् / तदाह / पुगन्तेति गुणः इति // णिचि कृते चुर् इ इति स्थिते णिच आर्धधातुकत्वात्तस्मिन् चकारादुकारस्य 'पुगन्तलघूपधस्य' इति गुण इत्यर्थः / णिचश्च // 'अनुदात्तङितः' इत्यत आत्मनेपदमिति ‘स्वरितजितः' इत्यतः कत्रभिप्राये क्रियाफले इति चानुवर्तते / प्रत्ययग्रहणपरिभाषया णिजन्तादिति For Private And Personal Use Only