________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 25 2213 / झेर्जुस् / (3-4.108) लिङो झेर्नुस् स्यात् / ज इत् / 2214 / उस्यपदान्तात् / ( 6-1-96) अपदान्तादवर्णादुसि परे पररूपमेकादेश: स्यात् / इति प्राप्ते / परत्वान्नित्यत्वाच्च अतो येयः' (2212) इति प्राञ्च: / यद्यप्यन्तरङ्गत्वात्पररूपं न्याय्यं / तथाति ‘यास्' इत्येतस्य ‘इय्' इति व्याख्येयम् / एवं च सलोपस्यापवाद - ----- इत्यस्य इयादेशे आद्गणे यलोपः / अथ लिडो झेझेन्त इति प्राप्ते / झेर्जुसिति // लिङसीयुडिल्यतो लिङः इत्यनुवर्तते / तदाह / लिङो झेरिति // अनेकालत्वात्सवादेशः / ज इदिति // जुसः स्थानिवत्त्वेन प्रत्ययत्वात् चुट् इति जकार इत्संज्ञक इत्यर्थः / उसि शपि गुणे अवादेशे यासुटि सकारलोपे भव या उसिति स्थिते इयादेशं बाधित्वा पररूप प्रवृत्तिं शङ्कितुमाह / उसीति // एकः पूर्वपरयोरित्यधिकृतम् / आद्गण इत्यस्मादादित्यनुवतते / एडि पररूपमित्यस्मात्पररूपमिति / तदाह / अवर्णादुसीति // उसि यः अच् उकारः तस्मिन् परत इत्यर्थः / इको यणचीत्यतः अचीत्यनुवृत्तेः / यद्यपि उसः कृत्स्नस्याकारस्य च उसित्येकादेशेऽपि रूपन्तुल्यम् / तथापि अकस्सवणे दीर्घ इत्यादावुत्तरत्राचीत्यावश्यकमवाप्यनुवर्तत इति बोद्धयम् / भिन्युरित्याधुदाहरणम् / इति प्राप्त इति // भव या उसित्यत्रा कारस्योकारस्यचादगुणम्बाधित्वा एकस्मिन्नुकारे पररूप प्राप्ते सतीत्यर्थः / सति च पररूपे पा इत्यस्याभावात् इय् न स्यादिति मन्यते / परत्वादिति // पररूपापेक्षया इयादेशः परः नित्यश्च / अकृते कृते च पररूपे प्रवृत्तेः / कृते पररूपे य् इत्यस्यैकदेशविकृतन्यायेन एकादेशस्य पूर्वान्तवत्त्वेन वा इयादेशस्य निर्बाधत्वात् / ततश्च पररूपम्बाधित्वा इयादेशे भवेयुरिति रूपमिति प्राचीनाः मन्यन्त इत्यर्थः / ननु पररूपमङ्गाधिकारस्थत्वाभावात् अङ्गानपेक्षत्वात् अन्तरङ्गं / इयादेशस्तु आङ्गत्वात् प्रकृतिप्रत्ययोभयसापेक्षत्वात् बहिरङ्गम् / ततश्च परान्नित्यादपीयादेशात् पररूपस्यान्तरणतया बलवत्त्वात् पररूपमेव इह स्यादिति शङ्कते। यद्यपीति // परिहरति / तथापीति // अतः यास् इयः इति पदच्छदः / यासिति लुप्तषष्ठीकं पदम् / ततश्च अतः परस्य यासित्येतस्य इय् स्यादिति व्याख्येयमित्यर्थः / ननु लिङस्सलोपोऽनन्त्यस्येति सकारस्य लोपः इयादेशम्बाधित्वा नित्यत्वात् प्राप्नोतीति ततश्च यास् इत्यस्य इय् इति कथमित्यत आह / एवञ्चेति // यासिति सकारान्तस्य इयादेशविधिसामर्थ्यादेव सकारलोपं बाधित्वा प्रागेव यासिति सकारान्तस्य इयादेशो भवतीत्यर्थः / तथा च सकारावस्थायां अवर्णात्परत्वाभावेन पररूपस्याप्रवृत्तिरिति भावः / ननु यदि या स् इयः इति च्छेदः, तदा सकारस्य रुत्वे, भोभगो इति यत्वे, लोपश्शाकल्यस्येति तस्य लोपे, अतो या इयः इति स्यात् / आद्गुणे कर्तव्ये यलोपस्यासिद्धत्वादित्यत आह / For Private And Personal Use Only