________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 253 253 2530 / हिनुमीना / (8-4-15) उपसर्गस्थान्निमित्तात्परस्य एतयोर्नस्य णः स्यात् / प्रहिणोति / 2531 / हेरचङि / (7-3-56) अभ्यासात्परस्य हिनोतेर्हस्य कुत्वं स्यान्न तु चङि / जिघाय / पृ 1259 प्रीतौ / पृणोति / पर्ता / स्पृ 1260 प्रीतिपालनयोः / 'प्रीतिचलनयोः' इत्यन्ये / 'चलनं जीवनम्' / इति स्वामी / स्पृणोति / पस्पार / 'स्मृ' इत्येके / स्मृणोति / पृणोत्यादयस्त्रयोऽपि छान्दसा इत्याहुः / आप्ल. 1261 व्याप्तौ / आप्नोति / आप्नुतुः / आप्नुवन्ति / आप्नुवः / आप्ता / आप्नुहि / लदित्त्वादङ / आपत् / शक्ल. 1262 शक्तौ / अशकत् / राध 1263 साध 1264 संसिद्धौ / रानोति / 2532 / राधो हिंसायाम् / (6-4-123) एत्त्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च / अपरेधतुः / रेधुः / रेधिथ / राद्धा / सानोति / साधा / असात्सीत् / असाद्धाम् / अथ द्वावनुदात्तेतौ / अशू 1265 व्याप्तौ सङ्घाते च / अश्नुते / मीना // हिनु मीना अनयोर्द्वन्द्वात्षष्ठीद्विवचनस्य आ| लुक् / 'रषाभ्यानो णः' इत्यनुवर्तते / 'उपसर्गादसमासेऽपि' इत्यत उपसर्गादिति च / तदाह / उपसर्गस्थादिति // हेरचङि॥ 'चजोः' इति सूत्रात् कुग्रहणमनुवर्तते / ‘अभ्यासाच्च' इत्यतः। अभ्यासादिति // ‘हो हन्तेः' इत्यतः ह इति षष्ठ्यन्तमनुवर्तते / तदाह / अभ्यासात्परस्येति // जिघायेति // जिध्यतुः / जिघयिथ-जिघेथ / जिध्यिव / आप्ल व्याप्तौ। अनिट् / आप्नुवन्तीति // संयोगपूर्वकत्वात् 'हुश्नुवोः' इति न यण् / आन्पुवः इति // संयोगपूर्वकत्वात् 'उतश्चप्रत्ययात् ' इति नोकारलोपविकल्पः / आप्नुहीति // सयोगपूर्वकत्वादेव 'उतश्च प्रत्ययात् ' इति हेर्न लुक् / शक्ल शक्ताविति // शक्नोति / शशाक / शेकतुः / शशक्थ-शेकिथ / शेकिव / शक्ता / शक्ष्यति / अशकदिति // लदित्त्वादङ् / राध साध संसिद्धौ / अनिटौ / दीर्घाकारवत्त्वात् 'अत एकहल्' इत्यप्राप्तावाह / राधो हिंसायाम् // 'ध्वसोः' इत्यतः एदिति अभ्यासलोप इति च अनुवर्तते / ‘गमहन' इत्यतः कितीति / 'अत एकहल्मध्ये' इत्यतः लिटीति ‘थलि च सेटि' इति च सूत्रमनुवर्तते / तदाह / एत्त्वेत्यादिना / अपरेधतुरिति // उपसर्गवशादिह हिंसायां वृत्तिः / अन्यत्र रराधतुः / थल्यपि क्रादिनियमान्नित्यमिट् / 'उपदेशेऽत्वतः' इत्यत्र तपरकरणादिह नेनिषेधः / तदाह / रेधिथेति / राद्धेति // 'झषस्तथोः' इति धः / अशू व्याप्ताविति // ऊदित्त्वाद्वेट् / अश्नुते इति // अश्नुवाते / For Private And Personal Use Only