________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम] बालमनोरमा 2210 / सुट् तिथोः / ( 3-4-107) लिङस्तकारथकारयोः सुट् स्यात् / सुटा यासुट न बाध्यते / लिडो यासुट तकारथकारयोः सुडिति विषयभेदात् / ___ 2211 / लिङः सलोपोऽनन्त्यस्य / ( 7.2.79) सार्वधातुकलिङोऽनन्त्यस्य सस्य लोप: स्यात्। इति सकारद्वयस्यापि निवृत्तिः / सुट: श्रवणं त्वाशीलिङि / स्फुटतरं तु तत्रात्मनेपदे / मेव यासुटो डित्वमिति भावः / ज्ञापनफलन्तु वक्ष्यमाणेत्यत्र डीबभावः / अन्यथा लुडादेशस्य शानच: स्थानिवत्त्वेन टित्वात् डीप स्यात् / ननु क्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेध इत्यत्र यासुटो डित्ववचनं न ज्ञापकम् / अनुबन्धकार्ये सर्वत्र अनल्विधाविति निषेधाभावे सत्यपि यासु. टो डित्वस्य तिपसिमिबागमयासुटो ङित्त्वार्थमावश्यकत्वात्। नहि लिडादेशत्वेऽपि तिपसिमिपां डित्त्वं स्थानिवत्वलभ्यम् / हलइनश्शानज्झाविति सूत्रभाष्ये डिच्च पिन्न पिच्च ङिन्नेति प्रपञ्चिनत्वादित्यस्वरसादाह / नश्शानचः शित्वमपीह लिंगमिति // इह अनुबन्धकार्येऽपि वचिदनल्विधाविति निषेधोऽस्तीत्यस्मिन्नर्थे श्नः श्नाप्रत्ययस्य यः शानजादेशः हल:नश्शानज्झाविति विहितः तस्य शित्वमपि लिङ्गम् / ज्ञापकमित्यर्थः / अन्यथा स्थानिवत्वेनैव तस्य शित्त्वसिद्धेस्तद्वचनं व्यर्थ स्यादिति भावः / अत्र च यद्वक्तव्यन्तत् स्त्रीप्रत्ययनिरूपणे वक्ष्यमाणेत्यत्र प्रपञ्चितम् / तथा च प्रकृते भव यास त् इति स्थिते / सुडिति // लिङसीयुडित्यतः लिङ इत्यनुवर्तते। तिश्च थश्चेति द्वन्द्वात् षष्ठीद्विवचनम् / इकार उच्चारणार्थः / तदाह / लिङस्तकारेति / / मुटि टकार इत् उकार उच्चारणार्थः / भव यास् स् त् इति स्थितम् / नन्विह परेण सुटा यामुट: कथन्न वाधः / भवेयुरित्यादौ परम्मैपदेषु यासुविधेः चरितार्थत्वादिल्याशङ्कय निराकरोति / सुटा यासुट न बाध्यत इति // तत् कुत इत्यत आह / लिङो यासुट इति / लिङस्सीयुट यासुडागमश्च / लिङादेशैकदेशस्य तकारस्य सुडागम इति विषयभेदादित्यर्थः। तथा च यौगपद्यासम्भवात् विप्रतिषेधाभावान्न परेणापि सुटा यासुटो बाध इति भावः। लिङ इति // सेति लुप्तषष्टीकं पदम / रुदादिभ्यस्सार्वधातुक इत्यतस्सार्वधातुक इत्यनुवृत्तम् षष्ट्या विपरिणम्यते / तदाह / सार्वधातुकलिङ इति / सकारद्वयस्यापीति // अविशेषात् सकारद्वयस्यापि युगपल्लोपः प्रवर्तते / लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरिति तु पयायेण पुनः प्रवृत्तिनिवृत्तिपरमिति भावः / यद्यपि भव यास् स् त् इत्यत्र स्कोरित्येव सिद्धयति / तथापि भवेयुरित्याद्यर्थ सूत्रम / ननु मुटो लोपे किमर्थस्सुनिधिरित्यत आह / सुटः श्रवणन्त्वाशीलिङीति // भूयास्तामित्यादौ लिङाशिषात्यार्धधातुकत्वेन तत्र सकारलोपस्याप्रसक्तेरिति भावः / व्यञ्जनपरस्यैकस्यानेकस्य वोच्चारणे विशेषाभाव इति भाध्यादाह / स्फु. टतरन्त्विति // तत्रापि आशिषि लिङ्यपि एधिषीष्टेत्यादावात्मने पदे स्फुटतरं सकारद्र्यस्य श्रवणमित्यर्थः / तत्र यामुटः अभावेन सलोपाभावेन च सुट एव मकारस्य पृथक स्पष्टं श्रवण For Private And Personal Use Only