________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि प्रवर्तनम् / निमन्त्रणं नियोगकरणम् , आवश्यके श्राद्धभोजनादौ दौहित्रादः प्रवर्तनम् / आमन्त्रणं कामचारानुज्ञा / अधीष्टः सत्कारपूर्वको व्यापारः / ' प्रवतनायां लिङ् , इत्येव सुवचम / चतुर्णा पृथगुपादानं प्रपञ्चार्थम् / 2209 / यासुट परस्मैपदेषूदात्तो ङिच्च / ( 3-4-103) लिङ: परस्मैपदानां यासुडागमस्स्यात्स चोदात्तो ङिच्च / ङित्वोक्तायते 'क्वचिदनुबन्धकार्येऽप्यनल्विधाविति प्रतिषेधः' इति / श्रादेशस्य शानचरिशत्त्वमपीह लिङ्गम् / निमन्त्रणशब्दं व्याचष्टे / निमन्त्रणं नियोगकरणमिति // नियोगशब्दस्य प्रेरणशब्दपर्यायत्वभ्रमं वारयति / आवश्यके श्राद्धादौ दौहित्रादेः प्रवर्तनमिति // त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलः, इत्यादि वचनादिति भावः / तद्यथा दौहित्रादीन् प्रति इह श्राद्धे भवान् भुञ्जीतेति। आमन्त्रणं कामचारानुक्षेति॥ यथेच्छं क्रियतामित्यभ्यनुज्ञानमित्यर्थः / अधीष्टः सत्कारपूर्वको व्यापार इति // भाष्यवाक्यमिदम् / सत्कृत्यप्रवर्तनमित्यर्थः / अधिपूर्वकस्येषधातो वे क्तान्तस्योपसर्गवशादस्मिन्नर्थे वृत्तिः / अत एव भाष्यप्रयोगादधीष्टशब्दस्य पुंस्त्वम् / अधीष्टमित्येव क्वचित्पाठः / माणवकं भवानध्यापयेदित्युदाहरणम् / इदं कार्य नवेति विचार्य निर्धारणम् सम्प्रश्नः / यथा। किम्भोः व्याकरणं भवानर्धायीतेति / प्रार्थनं याच्या / यथा / भवाननं में दद्यादिति। सुवचमिति // प्रवर्तनात्वस्य विध्यादिचतुषु अनुस्यूतत्वादिति भावः / प्रवृत्यनुकूलव्यापारः प्रवर्तना / तत्र प्रवृत्तिः शिष्यादिनिष्ठा / तदनुकूलव्यापारस्तु प्रेरणात्मकः प्रवर्तयितृगुर्वादिनिष्टः / विस्तरस्तु मजूषायां द्रष्टव्यः / चतुर्णामिति // विधिनिमन्त्रणामन्त्रणाधीष्टानामित्यर्थः / अथ लिङस्तिपि इतश्चेतीकारलोपे शपि गुणे अवादेशे भव त् इति स्थिते / यासुडिति // लिङः सीयुडित्यतः लिङ इत्यनुवर्तते / षष्ट्यर्थे सप्तमी / तदाह / लिङः परस्मैपदानामिति // सीयुटोऽपवादः / यासुटि टकार इत् / उकार उच्चारणार्थः / टित्वात् तिबादीनामाद्यवयवः / अवयवे डित्वञ्च आनर्थक्यात्तदङ्गन्यायेन समुदाये आगमविशिष्टतिबादौ विश्राम्यति / आगमा अनुदात्ता इति यासुटः अनुदात्तत्वे प्राप्ते उदात्तवचनं / इदमेव वचनमागमा अनुदात्ता इत्यत्र ज्ञापकमिति भाष्यम् / स्तुयात् स्तुयातामित्यादी गुणादिनिषेधार्थ यासुटो ङित्ववचनम् / ननु यदागमा इति न्यायेन यासुडागमो लिङादेशपरस्मैपदावयवः / ततश्च स्थानिवत्वेनैव ङित्त्वसिद्धेः यासुटो डित्वविधिय॑थः / न च स्थानिभूतलिङो ङकारस्याल इत्त्वेन गुणनिषेधविधावाश्रयणादनल्विधाविति निषेधश्शयः / घुमास्थागापाजहातिसां हलीति विङति विहितस्य ईत्वस्य नल्यपीति निषेधेन लिङ्गेनानुबन्धकार्ये अनल्विधाविति निषेधाभावज्ञापनादित्यत आह / ङित्वोक्तेरिति / क्वचिदनुबन्धकार्येऽपि अनल्विधाविति निषेध इति // यासुटो ङित्वेन ज्ञायत इत्यन्वयः / तथा च एतद्द्वापनार्थ For Private And Personal Use Only