________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 240 सिद्धान्तकौमुदीसहिता [दिवादि हिंसार्थस्य सकर्मकतया देवादिकत्वायोगात् / राधा / रात्स्यति / अयं स्वादिइचुरादिश्च / व्यध 1182 ताडने / 'अहिज्या-' (सू 2412) इति सम्प्रसारणम् / विध्यति / विव्याध / विविधतुः / विव्याधिथ-विव्यद्ध / व्यद्धा / व्यत्स्यति / विध्येत् / विध्यात् / अव्यात्सीत् / पुष 1183 पुष्टौ / पुष्यति / पुपोष / पुपोषिथ / पोष्टा / पोक्ष्यति / 'पुषादि-' (सू 2343) इत्यङ् / अपुषत् / शुष 1184 शोषणे / अशुषत् / तुष 1185 प्रीतौ / दुष 1186 वैकृत्ये / श्लिष 1187 आलिङ्गने / श्लिष्यति / शिश्लेष / श्लेष्टा / लक्ष्यति / 2514 / श्लिषःअस्मात्परस्यानिटश्च्ले: क्सः स्यात् / पुषाद्यङोऽपवादो न तु चिणः / पुरस्तादपवादन्यायात् / आह। हिंसार्थस्येति॥नोन्मिषत्येवैषा शङ्का / राधेरकर्मकस्यैव देवादिकत्ववचनात् / हिंसार्थकस्य च राधेः सकर्मकतया देवादिकत्वाभावादुक्तशङ्काया अनुन्मेषादित्यर्थः / ननु रानोति, राधयति, इति कथमित्यत आह / अयं स्वादिश्चुरादिश्चेति // रराधिथ / क्रादिनियमात् नित्यमिट् / दीर्घाकारवत्त्वेन ' उपदेशेऽत्वतः' इत्यस्याप्रवृत्तेः / अजन्तोऽकारवानित्यत्र च ह्रस्वाकारस्यैव विवक्षितत्वात् / राद्धा। अरात्सीत् / व्यध ताडने इति // चतुर्थान्तोऽयम् / अनिट्। 'ग्रहिज्या' इति श्यनो ङित्त्वात् 'लिट्यभ्यासस्य' इति यकारस्य सम्प्रसारणे पूर्वरूपे विध्यतीति रूपमित्यर्थः / वकारस्य तु न सम्प्रसारणम् / 'न सम्प्रसारणे सम्प्रसारणम्' इति निषेधात् / विव्याधेति // द्वित्वे कृते अभ्यासस्य 'लिट्यभ्यासस्य' इति सम्प्रसारणमिति भावः / विविधतुरिति॥परत्वात् 'अहिज्या' इति सम्प्रसारणे कृते द्वित्वमिति भावः / भारद्वाजनियमास्थलि वेडित्यत आह / विव्यधिथ-विव्यद्धति // 'लिट्यभ्यासस्य ' इति सम्प्रसारणम् / अनिट्पक्षे 'झषस्तथोः' इति धः। अव्यात्सीदिति // हलन्तलक्षणा वृद्धिः / पुषपुष्टौ / अनिट् / पुपोषिथेति // अजन्ताकारवत्वाभावात् कादिनियमानित्यमिट् / अपुषदिति // पुषाद्यङ् / ङित्त्वान्न गुणः / शुषधातुरनिट् / अशुषदिति // पुषाद्यङिति भावः / एवमग्रेऽपि। तुष् दुष् श्लिष् एते अनिटः / लुङि श्लिषः च्लेस्सिजादेशे प्राप्ते / श्लिषः // च्लेरिति ‘शल इगुपधात् ' इत्यतः अनिट: क्स इति चानुवर्तते / तदाह / अस्मात्परस्येत्यादिना // ननु 'शल इगुपधात्' इत्येव क्से सिद्ध किमर्थमिदमित्यत आह / पुषाद्यङोऽपवादः इति // 'शल इगुपधात्' इति क्सं बाधित्वा परत्वात् पुषाद्यङ् स्यात् तनिवृत्तये पुनः क्सविधिरित्यर्थः / ननु श्लिष इति क्सः यथा परमपि पुषाद्यङम्बाधते तथा 'चिण्भावकर्मणोः' इति चिणमपि परं बाधेत एवं सति ‘उपाश्लेषि कन्या देवदत्तेन' इत्यत्र कर्मणि लुङि 'चिण्भावकर्मणोः' इति च्लश्चिण् न स्यादित्यत आह / नतु चिणः इति // ‘श्लिषः' इति क्सविधिः 'चिण भाव For Private And Personal Use Only