________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 231 एषामाकारोऽन्तादेशः स्याज्झलादौ सनि झलादौ क्ङिति च / जजातः / जज्ञति / जसि / जजान / जजायात्-जजन्यात् / जायात्-जन्यात् / गा 1106 स्तुतौ / देवाजिगाति सुम्नयुः / जिगीतः / जिगति / इति तिङन्तजुहोत्यादिप्रकरणम् / झलादौ सनि झलादौ क्ङिति चेति // सन्विशेषणञ्झलादाविति किम् / जिजनि. षति / सिसनिषति / चिकनिषति / अथ विडतो.विशेषणस्य प्रयोजनमाह / जशतीति / / जजन् अति इति स्थिते अतेर्डित्त्वे झलादित्वाभावादात्त्वाभावे ‘गमहन' इत्युपधालोपे नकारस्य चत्वेन अकार इति भावः / 'जनसनखनां सन' इत्याश्रित्य योगविभागेन उक्तार्थसिद्धिञ्चाश्रित्य झल्ग्रहणन्त्वत्र सूत्रे प्रत्याख्यातम् भाष्ये / जसीति // 'नश्च' इत्यनुस्वारः / जजाथः / जजाथ / जजन्मि / जजन्वः / जजन्मः। जजानेति // जज्ञतुः। सेडयम् / जजनिथ। जज्ञथुः / जज्ञिव / जनिता / जनिष्यति / जजन्तु-जजातात् / जजाहि / जजनानि / अजजन् / अजजाताम् / अजजुः / अजजनम् / अजजन्य / विधिलिङि 'ये विभाषा' इति मत्त्वा आह / जजायात्-जजन्यात् इति // अजनीत्-अजानीत् / अजनिष्यत् / गा स्तुतौ। देवा. जिगातीति // 'भृामित्' इत्यत्र ‘बहुळञ्छन्दसि' इति वचनादभ्यासस्य इत्त्वमिति भावः / जिगीतः इति // ‘ई हल्यघोः' इति ईत्त्वम् / जिगतीति // अभ्यस्तत्वाददादेशे 'श्नाभ्यस्तयोः' इत्याल्लोपः / जिगासि / जिगीथः / जिगीथ / जिगामि / जिगीवः / जगौ / जगतुः / जगिथ-जगाथ / जगिव / गाता / गास्यति / जिगातु-जिगीतात् / जिगीताम् / जिगतु / जिगीहि / जिगानि / आजिगात् / अजिगीताम् / अजिगुः / अजिगाः। अजिगाम् / अजिगीव / जिगीयात् / आशिषि गायात् / अगासीत् / अगास्यत् / इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमायां श्लुविकरणं समाप्तम् / For Private And Personal Use Only