________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 225 2498 / जहातेश्च / (6-4-116) इत्स्याद्वा हलादौ विङति सार्वधातुके / पक्षे ईत्त्वम् / जहित:-जहीतः / जहति / जहौ / जहितात् / 2499 / आ च हौ (6-4-117) जहातेही परे आ स्याच्चादिदीतौ / जहाहि-जहिहि-जहीहि / अजहात् / अजहुः / अजहाः / / 2500 / लोपो यि / (6-4-118) जहातेरालोप: स्याद्यादौ सार्वधातुके / जह्यात् / ‘एलिङि' (सू 2374) हेयात् / अहासीत् / डु दाञ् 1091 दाने / प्रणिददाति / दत्तः / ददति / दत्ते / ददौ / 'ध्वसो:-' (2471) इत्येत्त्वाभ्यासलोपौ / देहि / विशेषः / तदाह / जिहीते इत्यादि // इति भृत्रादयस्त्रयो गताः। ओ हाक् त्यागे इति॥ अनिट्। ओकारः ककारश्च इत् / जहातीति // श्लौ द्वित्वे अभ्यासचुत्वमिति भावः / तसादौ ‘श्नाभ्यस्तयोरातः' इति नित्यमीत्त्वे प्राप्ते / जहातेश्च // इद्दरिद्रस्य' इत्यतः इदिति ‘भियोऽन्यतरस्याम्' इत्यतः अन्यतरस्यामिति चानुवर्तते / ‘गमहन' इत्यतः विडतीति, ‘ई हल्यघोः' इत्यतः हलीति च। इत्यभिप्रेत्य शेषं पूरयति / इत्स्याद्वेति / जहतीति // अभ्यस्तत्वाददादेशे 'श्नाभ्यस्तयोः' इत्याल्लोपः / जहाविति // जहतुः / जहुः / जहिथ-जहाथ / जहथुः / जह / जहौ / जहिव / जहिम / हाता / हास्यति / जहितादिति // जहि. ताम्-जहीताम् / जहतु / आ च हो // आ इति लुप्तप्रथमाकम् / जहातेरिति / / 'जहा तेश्च' इत्यतः तदनुवृत्तेरिति भावः / चादिदीताविति // इद्दरिद्रस्य' इत्यतः ‘ई हल्यघोः' इत्यतश्च तयोरिह चकारेणानुकर्षादिति भावः / जहितात्-जहीतात् / जहितम्-जहीतम् / जहित-जहीत / जहानि। जहाव। जहाम / लङयाह / अजहादिति // अजहिताम्अजहीताम् / अजहुः / अजहाः इति // अजहितम्-अजहीतम् / अजहित-अजहीत / अजहाम् / अजहिव-अजहीव / अजहिम-अजहीम / लोपो यि // ‘जहातेश्च' इत्यतो जहातेरिति ‘श्नाभ्यस्तयोरातः' इत्यतः आत इति, 'अत उत्सार्वधातुके' इत्यतः सार्वधातुके इति चानुवर्तते / यि इति सप्तम्यन्तं सार्वधातुकविशेषणम् / तदादिविधिः / तदाह / जहातेरित्यादिना // 'जहातेश्च' इत्यस्यापवादः / आशीलिङ्याह / एर्लिङीति / अहासीदिति // 'यमरम' इति सगिटौ / अहास्यत् / डु दाञ् उभयपदी। अनिट् / प्रणिददातीति // ‘नेर्गद' इति णत्वत् / दत्तः इति // ददा तस् इति स्थिते अघोरिति पर्युदासादित्त्वाभावे 'श्नाभ्यस्तयोः' इत्याल्लोपः / ददतीति // अभ्यस्तत्वाददादेशे ‘श्नाभ्यस्तयोः' इत्याल्लोप इति भावः / ददासि / दत्थः / दत्थ। ददामि / दद्वः। दद्मः / दत्ते इति // ददाते / ददते / दत्से / ददाथे। दद्धे / ददे / दद्वहे / दद्महे / ददौ इति // For Private And Personal Use Only