________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीरस्तु / // अथ तिङन्तजुहोत्यादिप्रकरणम् // हु 1083 दानादनयोः / ‘आदाने च' इत्येके / 'प्रीणनेऽपि' इति भाष्यम् / दानं चेह प्रक्षेपः / स च वैधे आधारे हविषश्चेति स्वभावाल्लभ्यते / इतश्चत्वारः परस्मैपदिनः / 2489 / जुहोत्यादिभ्यः श्लुः / (2-4-75) शपः श्लुः स्यात् / ___ 2490 / श्लौ / (6-1-10) धातो· स्त: / जुहोति / जुहुतः / 'अदभ्यस्तात्' (सू 2479) इत्यत् / 'हुश्नुवो:-' (सू 2387) इति यण् / जुह्वति / 2491 / भाहीभृहुवां श्लुवच्च / (3-1-39) एतेभ्यो लिट्याम्वा स्यात् आमि श्लाविव कार्य च। जुहवाञ्चकार। जुहाव / अथ श्लुविकरणा धातवो निरूप्यन्ते। हु दानादनयोरिति // दाने अदने चेत्यर्थः / भाष्यमिति // तृतीया च होइछन्दसि' इति सूत्रस्थमिति शेषः / ननु यदि दानमिह प्रसिद्धं विवक्षितं तर्हि ब्राह्मणाय गां ददातीत्यत्र जुहोतीत्यपि प्रयोगः स्यादित्यत आह / दानं चेह प्रक्षेपः इति // नन्वेवमपि कूपे घटम्प्रक्षिपति आहवनीये जलम्प्रक्षिपतीत्यत्रापि जुहोतीति प्रयोग: स्यादित्यत आह / स चेति // सः प्रक्षेपः विधिबोधिते आधारे आहवनीयादौ पुरोडाशादिहविष इति लभ्यते इत्यन्वयः। कुत इत्यत आह / स्वभावादिति // अनादिसिद्धलोकव्यवहारादित्यर्थः / तथाच विधिबोधिते आधारे विधिबोधितस्य हविषो देवतायै त्यज्यमानस्य हविषः प्रक्षेपे हुधातुर्वर्तते इति फलितम् / एतच्च पूर्वमीमांसायां तृतीये “सर्वप्रदानं हविषस्तदर्थत्वात्" इत्यधिकरणे अध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः / जुहोत्यादिभ्यः श्लुः // शपः इति // ‘अदिप्रभृतिभ्यः' इत्यतस्तदनुवृत्तेरिति भावः / हु अ इति स्थिते शपः श्लौ कृते हु ति इति स्थिते / श्लौ॥ शेषम्पूरयति / धातोढे स्तः इति // 'एकाचो द्वे' इत्यतः 'लिटि धातोः' इत्यतश्च तदनुवृत्तेरिति भावः / द्वित्वे कृते अभ्यासकार्यमभिप्रेत्य आह। जुहोतीति / यणिति // उवङयवाद इत्यर्थः / भीही॥ भी ही भृ हु For Private And Personal Use Only