________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 सिद्धान्तकौमुदीसहिता [अदादि दरिद्रातेरिकारः स्याद्धलादौ किङति सार्वधातुके / दरिद्रितः / 2483 / श्नाभ्यस्तयोरातः / (6-4-113) अनयोरातो लोप: स्यात्विङति सार्वधातुके। दरिद्रति / अनेकाच्त्वादाम् / दरिद्राञ्चकार / 'आत औ णल:' (सू 2371) इत्यत्र 'ओ, इत्येव सिद्धे औकारविधानं दरिद्रातरालोपे कृते श्रवणार्थम् / अत एव ज्ञापकादाम्नेत्येके / ददरिद्रौ / ददरिद्रतरित्यादि / यत्तु णलि ददरिद्रेति तन्निर्मूलमेव / 'दरिद्रातेरार्धधातुके विवक्षिते आलोपो वाच्यः' (वा 4146) / 'लुङि वा' (वा 'ई हल्यघोः' इत्यतः हलि इति 'अत उत्' इत्यतः सार्वधातुके इति / तदाह / दरिद्रातेरिति॥ ‘श्नाभ्यस्तयोः' इत्याल्लोपापवादः / अलोऽन्त्यस्येत्यन्त्यस्य इकारः / दरिद्रितः इति // 'सार्वधातुकमपित्' इति तसो ङित्त्वादाकारस्य इकारः / नाभ्यस्तयोरातः॥ गमहन' इत्यतः लोपः विडतीत्यनुवर्तते / 'अत उत्' इत्यतः सार्वधातुके इति / तदाह / अनयोरिति // नाप्रत्ययस्य अभ्यस्तस्य चेत्यर्थः / दरिद्रतीति // जक्षित्यादित्वादभ्यस्तत्वाददभ्यस्तादिति झस्य अदादेशे आकारलोपः। दरिद्रासि / दरिद्रिथः / दरिद्रिथ / दरिद्रामि / दरिद्रिवः / दरिद्रिमः / लिङ्याह / अनेकाच्त्वादामिति // इदञ्च 'कास्प्रत्ययात्' इति सूत्रभाष्ये स्पष्टम् / दरिद्राञ्चकारेति // आमि सवर्णदीर्घः / कैयटमतमाह / आतः इति // 'आत औ णल:' इत्यत्र प्रथमातिक्रमे कारणाभावात् ओकार एव विधातुमुचितः / वृद्धौ सत्यान्तावतैव ययौ इत्यादिसिद्धेः। तस्मादौकारविधानं दरिद्राधातोर्णलि 'दरिद्रातरार्धधातुके लोपो वक्तव्यः' इत्याल्लोपे ददरिद्री इत्यौकारश्रवणार्थ सम्पद्यते / ओकारविधाने तु आलोपे सति वृद्धरसम्भवात् ददरिद्रो इत्योकार एव श्रूयेतेत्यर्थः / अत एवेति // अस्मादेव दरिद्रातेः औकारश्रयणार्थात् औकारविधानाद्दरिद्रातेलिटि आम् नेति विज्ञायते। आमि सति णल एवाप्रसक्तरित्यर्थः। इदञ्च 'चस्वेकाजाद्धसाम्' इति सूत्रभाष्ये ध्वनितं कैयटेन स्पष्टीकृतम् / तनिर्मूलमेवेति // 'कास्प्रत्ययात्' इति वस्वेकाच्' इति सूत्रस्यभाष्यकैयटविरोधादिति भावः / ददरिद्रतुः / ददरिद्रुः। ददरिद्रिथ / ददरिद्रथुः / ददरिद्र / ददरिद्रौ। ददरिद्रिव / ददरिद्रिम। आर्धधातुके विवक्षिते इति // 'आतो लोप इटि च' इत्यालोपो दरिद्रातर्भवन् विडति अक्डिति च अजादावार्धधातुके भवति / स च आर्धधातुके विवक्षिते ततः प्रागेव भवतीति वक्तव्यमित्यर्थः। तेन दरिद्रातीति दरिद्रः आलोपे कृते पचाद्यच् सिद्ध्यति / आर्धधातुके परे आल्लोपप्रवृत्तौ तु 'श्याद्वयधा' इत्यादन्तलक्षणो णप्रत्ययः स्यात् / ततश्च कृते णप्रत्यये आल्लोपं बाधित्वा 'आता युक् चिणकृतोः' इति युकि दरिद्राय इति स्यात् / आर्धधातुके विवक्षिते ततः प्रागेव आल्लोपे तु कृते आदन्तत्वाभावात् णप्रत्ययाभावे पचाद्यच्प्रत्ययो निर्बाधः / तदिदं भाष्ये स्पष्टम् / लुङि वेति // लुङि आल्लोपो वा वक्तव्य इत्यर्थः / 'अद्यतन्यां वेति वक्तव्यम्' इति वार्तिकार्थसङ्ग्रहोऽयम् / अद्यतन्यामित्यनेन अद्यतनभूतार्थकधातुविहितलुड्डिभक्तिर्विवक्षिता / भाष्ये तस्या एवोदाहरणात् / For Private And Personal Use Only