________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 210 सिद्धान्तकौमुदीसहिता [अदादि अरुदत्-अरोदीत् / वि ष्वप् 1068 शये / स्वपिति / स्वपितः / सुष्वाप / सुषुपतुः / सुषुपुः / सुष्वपिथ-सुष्वप्थ / 2477 / सुविनिर्दुर्घ्यः सुपिसूतिसमाः। (8-3-88) एभ्य: सुप्यादेः सस्य ष: स्यात् / 'पूर्व धातुरुपसर्गेण युज्यते' / यासुटम्बाधित्वा परत्वात् 'अनार्यगालवयोः' इति ‘रुदश्च पञ्चभ्यः' इति च अडीटी स्यातामित्यत आह / प्रकृतिप्रत्ययेति // हलादिपित्सार्वधातुकापृक्तापेक्षत्वाञ्चेत्यपि शेयम् / लुङि 'इरितो वा' इत्यङ्पक्षे आह / अरुददिति // अङभावपक्षे त्वाह / अरोदीदिति॥ 'अस्ति सिचः' इति ईट् ‘रुदश्च पञ्चभ्यः' इति तु नेह प्रवर्तते। सिचा व्यवहितत्वात् / मि प्वप् शये इति // षोपदेशोऽयम् / आर्धधातुके अनिट् / स्वपितीति // 'रुदादिभ्यः' इति इट् / स्वपितः इति // स्वपन्ति / स्वपिषि / स्वपिथः / स्वपिथ / स्वपिमि / स्वपिवः / स्वपिमः / सुष्वापेति // द्वित्वे 'लिट्यभ्यासस्य' इति सम्प्रसारणे पूर्वरूपे आदेशसकारत्वात् षत्वमिति भावः / सुषुपतुरिति // 'वचिस्वपि' इति सम्प्रसारणे कृते द्वित्वादीति भावः / सुषुपुरित्यपि ज्ञेयम् / सुष्वपिथ-सुष्वप्थेति // भारद्वाजनियमात्थलि वेडिति भावः / सुषुपथुः। सुषुप / सुष्वाप-सुष्वप / सुषुपिव / सुषुपिम / सुविनिर्दुर्व्यः॥ कृतसम्प्रसारणस्य स्वप्धातोः स्वपीत्यनेन प्रहणम् / सूतीत्यनेन सूतिशब्दः कृदन्तो गृह्यते / समेत्यनेनापि समशब्दस्य ग्रहणम् / षष्ठ्यर्थे प्रथमा / 'सहेस्साढस्स' इत्यतः सः इति षष्ठ्यन्तमनुवर्तते / मूर्धन्य इत्यधिकृतम् / तदाह / एभ्यः सुप्यादेरिति // सुषुप्तिः, सुषूतिः, सुषुमः, इत्युदाहरणानि / अत्र कृतसम्प्रसारणस्य स्वप्धातोर्ग्रहणात् सुस्वप्न इत्यत्र न षत्वमिति भाष्यम् / नन्वेवं सति सु षुषुपतुरित्यत्र सुपूर्वस्य स्वप्धातोः कथं षत्वम् / कृतसम्प्रसारणस्य हि स्वप्धातोः षत्वम् / तत्र यदि स्वप् अतुस् इति स्थिते पूर्व द्वित्वे कृते पश्चात् 'वचिस्वपि' इति सम्प्रसारणं तदा हलादिशेषे उत्तरखण्डस्यैव 'वचिस्वपि' इति सम्प्रसारणं न त्वभ्यासस्य / अतुसः कितः उत्तरखण्डव्यवहितत्वात् , 'न सम्प्रसारणे सम्प्रसारणम्' इति निषेधाच्च / ततश्च सु सस्वप् अतुसित्यत्र पूर्वखण्डस्य कृतसम्प्रसारणत्वाभावात् कथं षत्वम् / उत्तरखण्डस्य च सु इत्युपसर्गादव्यवहितपरत्वाभावात्कथमनेन षत्वम् / इणकवर्गाभ्याम्परत्वाभावेन आदेशप्रत्यययोः इत्यस्याप्युत्तरखण्डे अप्रवृत्तेः / यदि तु परत्वात्पूर्व सम्प्रसारणे कृते पश्चात् द्वित्वं तर्हि सुप् इत्यस्य द्वित्वप्रवृत्तेः प्रागेव षत्वमिति वक्तव्यम् / तत्तु न युज्यते / 'पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण' इति परिभाषया सु इत्युपसर्गसम्बन्धस्य द्वित्वात्प्रागप्रवृत्तेः / तथाच कृतसम्प्रसारणस्य अकृतषत्वस्य सुप् इत्यस्य द्वित्वे उत्तरखण्डस्यैव 'आदेशप्रत्यययोः' इति षत्वं स्यात् / न तु पूर्वखण्डस्य ‘सात्पदाद्योः' इति निषेधात् / कृते हलादिशेषे सु इति पूर्वखण्डस्य सुत्रूपत्वाभावेन 'सुविनिर्दुर्व्यः' इत्यस्याप्यप्रवृत्तेः / नच एकदेशविकृतविकृतस्यानन्यत्वं शङ्कथम् / एवमप्यभ्यासस्यानर्थकत्वेन अर्थवग्रहणपरिभाषया षत्वस्य तत्राप्राप्तेः / तस्मादिह सुषुषुपतुरित्यत्र पूर्वखण्डे षत्वं दुरुपपादमित्याशङ्कय आह। पूर्व धातुरित्यादिना // लक्ष्यानुरोधादिह 'पूर्व धातुरुपसर्गेण युज्यते पश्चात्साधनेन' इत्याश्री For Private And Personal Use Only