________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 205 विवेद / विविदतुः / 'उपविद-' (सू 2341) इत्याम्पक्षे 'विद' इत्यकारान्तनिपातनान्न लघूपधगुणः / विदाञ्चकार / वेदिता / 2465 / विदांकुर्वन्त्वित्यन्यतरस्याम् / (3-1-41) वेत्तेर्लोट्याम् गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते / पुरुषवचने न विवक्षिते / इतिशब्दात् / 2466 / तनादिकृभ्य उः / (3-1-79) तनादेः कृयश्च 'उ' प्रत्यय: स्यात् / शपोऽपवादः / तनादित्वादेव सिद्धे कृञ्ग्रहणं ‘गणकार्यस्यानित्यत्वे' लिङ्गम् / तेन ‘न विश्वसेदविश्वस्तम्' इत्यादि सिद्धम् / विदाङ्करोतु / व्यवधानात् नैते आदेशाः / इत्यादीति // विदन्ति / वेत्सि / वित्थः / वित्थ / वेद्मि / विद्वः / विद्मः / विविदतुरिति // विविदुः / विवेदिथ / विविदथुः / विविद / विवेद / विविदिव / विविदिम / आम् पक्षे इति // न लघूपधगुण इत्यन्वयः। कुत इत्यत आह / अकारान्तनिपातनादिति // 'उषविद' इति सूत्रे विदेत्यकारान्तत्वं आम्सन्नियोगेन निपात्यत इत्यर्थः / आमि अतो लोपः / तस्य स्थानिवत्त्वात् न लघूपधगुण इति भावः / वेदितेति // वेदिष्यतीत्यपि ज्ञेयम् / विदांकुर्वन्त्वित्यन्यतरस्याम् // ‘कृञ् चानुप्रयुज्यते लिटि' इत्युत्तरमिदं सूत्रम् / इतिशब्दः प्रकारे / एवञ्जातीयकं वैकल्प्येन प्रत्येतव्यमित्यर्थः / वेत्ते. रिति // लुग्विकरणात् विदधातोः लोटि परे आम्प्रत्ययो निपात्यत इत्यर्थः / लोडन्तति // आमन्ताद्विदेः लोडन्तकृञ्धातोः अनुप्रयोगश्च निपात्यत इत्यर्थः / ननु ‘विदाङ्कुर्वन्तु' इति लोटि प्रथमपुरुषबहुवचनस्यैव सूत्रे निर्देशात् कथं लोडन्तसामान्यानुप्रयोग इत्याह। पुरुषेति॥ कुर्वन्त्विति प्रथमपुरुषो बहुवचनञ्च न विवक्षितमित्यर्थः / तयोस्तु नान्तरीयकमुच्चारणमिति भावः / इतिशब्दादिति // तस्य प्रकारवचनस्य लोकप्रयोगानुसारित्वादिति भावः / तनादिकृभ्य उः। शपोऽपवादः इति // अनेन शब्विषय एवास्य प्रवृत्तिरिति सूचितम् / 'सार्वधातुके यक' इत्यतः सार्वधातुकग्रहणस्य ‘कर्तरि शप्' इत्यतः कर्तरीत्यस्य चानुवृत्तेरिति भावः / तेनेति // गणकार्यस्यानित्यतया 'श्वसेत्' इत्यत्र अदादिगणकार्य शपो लुङ्न भवतीत्यर्थः / वस्तुतस्तु कृञ्ग्रसणस्यात्र भाष्ये प्रत्याख्यातत्वात् उक्तज्ञापनाभावात् विश्वसेदित्यसिद्धमेवेत्याहुः / विश्वस्तमित्यत्र तु आगमशास्त्रस्यानित्यत्वात् नेडित्याहुः / विदाङ्करोत्विति // अत्र विदेर्लोटि आमि लोटो लुकि आमन्ताद्विदेः कृजो लोडन्तस्यानुप्रयोगः / तत्र लोटस्तिपि ‘एरुः' इत्युत्वे शपम्बाधित्वा उप्रत्यये ऋकारस्य गुणे रपरत्वे उकारस्य तिन्निमितो मुणः / तातङि तु ऋकारस्य गुणे रपरे तातडो ङित्त्वात् उकारस्य गुणाभावे विदाङ्कुरुतात् For Private And Personal Use Only