________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 204 सिद्धान्तकौमुदीसहिता [अदादि 'सम्पूर्वस्य ख्याते: प्रयोगो न' इति न्यासकारः / प्रा 1061 पूरणे / 'मा 1062 माने / अकर्मकः / तनौ ममुस्तत्र न कैटभद्विषः' इति माघः / उपसर्गवशेनार्थान्तरे तु सकर्मकः / 'उदरं परिमाति मुष्टिना' / ' नेर्गद-' (सू 2285) इत्यत्र नास्य ग्रहणम् / प्रणिमाति-प्रनिमाति / वच 1063 परिभाषणे / वक्ति / वक्त: / अयमन्तिपरो न प्रयुज्यते / ‘बहुवचनपरः' इत्यन्ये / 'झिपरः' इत्यपरे / वग्धि / वच्यात / उच्यात् / अवोचत् / विद 1064 ज्ञाने। 2464 / विदो लटो वा / (3-4-83) वेत्तेर्लट: परस्मैपदानां णलादयो वा स्युः / वेद / विदतुः / विदुः / वेत्थ / विदथुः / विद / वेद / विद्व / विद्म / पक्षे वेत्ति / वित्तः इत्यादि / सार्वधातुकेऽपीति भावः। अत्र व्याख्यानमेव शरणम् / एवञ्च सङ्ख्याति इत्यादि नास्तीति फलितम् / संख्यादिशब्दास्तु ख्याादेशस्येति बोध्यम् / मामाने इति ॥मानं परिमितिरिति भावः। तदाह / अकर्मक इति // माति घृतं पात्रेऽस्मिन्निति भावः / परिमितंभवतीत्यर्थः / सङ्ग्रहीतं भवतीति यावत् / अत्रार्थे शिष्टप्रयोगसंवादं दर्शयति / तनौ ममुस्तत्रेति // ‘तनी ममुस्तत्र न कैटभद्विषः तपोधनाभ्यागमसम्भवा मुदः' इति माघकाव्ये / तपोधनस्य नारदस्य अभ्यागमेन आगमनेन सम्भवाः मुदः सन्तोषाः कैटभद्विषः श्रीकृष्णस्य तनौ शरीरे न ममुः परिमिता न बभूवुः आधिक्यान्न सङ्ग्रहीता बभूवुरिति यावत् / अर्थान्तरे त्विति // परिच्छेदे त्वित्यर्थः / उदरमिति // उदरं परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किमु / इति नैषधकाव्ये / कोऽपि कुतुकी दमस्वसुः दमयन्त्याः उदरं मुष्टिना परिमाति किमु परिगृह्णातीत्यर्थः / नास्य ग्रहणमिति // घुप्रकृतिमाडिति भाष्यादिति भावः / एवञ्च ‘शेषे विभाषाऽकखादौ' इति णत्वविकल्प इति मत्वा आह / प्रणिमाति-प्रनिमातीति // ममौ / ममिथममाथ / ममिव / माता / मास्यति / मातु / अमात् / अमासीत् / अमास्यत् / वच परिभाषणे / अनिट् / अयमन्तीति // लटि प्रथमपुरुषबहुवचनं नास्तीत्यर्थः / बहुवचनपरः इति // न प्रयुज्यत इति शेषः / अस्मिन् पक्षे पुरुषत्रये बहुवचनं नास्ति / झिपर इति॥ न प्रयुज्यत इति शेषः। अस्मिन् पक्षे लिडादिष्वपि बहुवचनं नास्तीति भावः / तत्र लिटि अकिति लिट्यभ्यासस्य' इति सम्प्रसारणम्। उवाच / किति तु ‘वचिस्वपि' इति सम्प्रसारणम् / ऊचतुः। उवचिथ-उवक्थ / ऊचिव / वक्ता / वक्ष्यति / वक्तु। अवचत् / वच्यादिति // विधिलिङि रूपम् / आशीर्लिङि 'वचिस्वपि' इति सम्प्रसारणं मत्वा आह / उच्यादिति // लुङि ‘अस्यति वक्ति' इति च्लेरङि 'वच उम्' इति भावः / विद ज्ञाने इति // अनिट्सु लुग्विकरणस्याग्रहणात् अयं सेट् / विदोलटो वा // परस्मैपदानां णलतुस्' इत्यादिसूत्रमनुवर्तते। विद इति पञ्चमी / तदाह / वेत्तेर्लटः इति // विन्दतिविद्यत्योस्तु शेन श्यना च For Private And Personal Use Only