________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / आदन्तात्परस्य लङो झर्जुस् वा स्यात् / अयु:-अयान / यायात् / यायाताम / यायास्ताम् / अयासीत् / वा 1050 गतिगन्धनयोः / गन्धनं सूचनभ / भा 1051 दीप्तौ / ष्णा 1052 शौचे / श्रा 1053 पाके / द्रा 1054 कुत्सायाम गतौ / सा 1055 भक्षणे / पा 1056 रक्षणे / पायास्ताम / अपासीत् / रा 1057 दाने / ला 1058 आदाने / ' द्वावपि दाने' इति चन्द्रः / दाप 1059 लवने / प्रणिदाति-प्रनिदाति / दायास्ताम् / अदासीत / ख्या 1060 प्रकथने / अयं सार्वधातुकमात्रविषयः / सस्थानत्वं नमः ख्यात्रे (वा 1591) इति वार्तिकं तद्भाष्यञ्चेह लिङ्गम् / 'सस्थानो जिह्वामूलीयः / स नेति ख्याञादेशख ख्शादित्वे प्रयोजनमित्यर्थः / इति अत इति चानुवर्तते। तदाह। आदन्तादिति // जुस वेति // शाकटायनग्रहणाद्विकल्पलाभ इति भावः / एवकारस्तु 'लिट् च' 'लिडाशिषि' इत्युत्तरार्थ इति भाष्ये स्पष्टम् / नच 'लोटो लङ्वत्' इत्यतिदेशात् यान्तु इत्यत्रापि जुस्विकल्पः शङ्कयः / 'नित्यं ङितः' इत्यतो ङित इत्यनुवृत्त्यैव सिद्धर्लङ्ग्रहणस्य लद्भावमादाय प्रवृत्तिनिवारणार्थत्वात् / इदमपि भाष्ये स्पष्टम् / अयानिति // जुसभावे रूपम् / अयासीत् / ष्णाधातुः षोपदेशः / नस्य टुत्वे णत्वनिर्देशः / स्नाति / स्नायात्-स्नेयात् / पा रक्षणे / 'एलिडि ' इति सूत्रे, गातिस्था इत्यत्र च पिवतेरेव ग्रहणादेत्त्वसिज्लुको न / तदाह / पायास्ताम् / अपासीत् इति // दाप् लवने / घुत्वाभावात् 'शेषे विभाषा' इति णत्वविकल्पम्मत्वा आह। प्रणिदाति-प्रनिदातीति // घुत्वाभावादाशीलिडि लुङिच 'घुमास्था' इति ईत्त्वन्नेति मत्वा आह। दायास्तामिति / अदासीदिति च // ख्या प्रकथने / अयं सार्वधातुकमात्रविषयः इति // मात्रशब्दोऽवधारणे / सार्वधातुक एवास्य ख्याधातोः प्रयोगः न त्वार्धधातुके इत्यर्थः / कुत इत्यत आह / सस्थानत्वमिति // चक्षिङः ख्यामिति सूत्रे ख्यास्थाने 'ख्शाञ्' इति वक्तव्यम् / अस्य शकारस्य पूर्वत्रासिद्धमिल्यधिकारे यकारो वक्तव्य इत्युक्त्वा प्रयोजनं सौप्रख्ये वुविधिरित्युपक्रम्य सस्थानत्वं नमः ख्यात्रे इत्युक्तं वार्तिके। तत्र नमध्याहृत्य नमः ख्यात्रे इति सस्थानत्वं न भवतीति व्याख्यातं भाष्ये / तदिदं वार्तिक भाष्यञ्च ख्याधातोरस्य सार्वधातुके एव प्रयोग इत्यत्र ज्ञापकमित्यर्थः / तत्र सस्थानपदं व्याचष्टे / सस्थानो जिह्वामलीयः इति // प्राचीनाचार्यसमयादिति भावः / स नेति // स: जिह्वामूलीयः नमः ख्यात्रे इत्यत्र न भवतीत्येतत् ख्या आदेशस्य ख्शादित्वविधौ शस्य यत्वविधौ च प्रयोजनमित्यर्थः / ख्शादित्वे इति // यत्वविधावित्यस्याप्युपलक्षणम् / शकारस्थानिकयत्वस्यासिद्धत्वात् ‘शर्परे विसर्जनीयः' इति विसर्जनीय इष्टस्सिद्ध्यति / जिह्वामूलीयस्त्वनिष्टो न भवतीति भाष्यवार्तिकहृदयम् / ख्याधातोरस्यार्धधातुकेऽपि प्रयोगसत्वे तु तृजन्ते ख्यातृशब्दे यकारस्य शकारस्थानिकत्वाभावात् असिद्धत्वाभावात् ‘शपरे विसर्जनीयः' इत्यस्याप्रवृत्तौ 'कुप्वोः' इति जिह्वामूलीयो दुर्वारस्स्यात्। ततश्चार्धधातुके सर्वत्र न ख्याधातोः प्रयोग इति विज्ञायते।ज्ञापकस्य सामान्यापेक्षत्वादिति भावः। सम्पूर्वस्येति॥ For Private And Personal Use Only