________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि लोट इकारस्य उ: स्यात् / भवतु / 2197 / तुह्योस्तातडाशिष्यन्यतरस्याम्। (7-1-35) आशिषि तुह्योस्तातका स्यात् / अनेकाल्त्वात्सर्वादेशः / यद्यपि * ङिञ्च' (43) इत्ययमपवादस्तथाप्यनन्यार्थङित्त्वेष्वनडादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थतया सम्भवत्प्रयोजनकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते / इहोत्सर्गापवादयोरपि समवलत्वात् / भवतात् / उः इति च्छेदः / एरिति षष्ट्यन्तम् / इवर्णस्येति लभ्यते / लोटो लडदित्यतो लोट इत्यनुवतते / तदाह / लोट इति / भवत्विति // तिपि शपि गुणे अवादेशे तिप इकारस्य उकारः / अथाशिषि लोटो विशेषमाह / तुह्योरिति // तुश्च हिश्च तुही तयोरिति विग्रहः / तातडि डकार इत / अकार उच्चारणार्थः / तादित्यादेशदिशध्यते / ननु किमस्य अनेकालत्वात्सर्वादेशता उत डित्वादन्तादेशतेत्यत आह / अनेकाल्त्वात् सर्वादेश इति // ननु डिच्चेत्यस्य सर्वादेशापवादतया अनादेरिव तातडोऽप्यन्त्यादेशत्वमेवोचितमित्याशङ्कते / यद्यपि डिच्चेत्ययमपवाद इति // परिहरति / तथापीति // परेण वाध्यते इत्यन्वयः / तातङादेशे डिच्चेत्ययं विधिः अनेकाल शित् सर्वस्येति परेण बाध्यत इत्यर्थः / ननु परनित्यान्तरङ्गापवादानामुनरोत्तरं बलीय इति परापेक्षया अपवादस्य प्रबलत्वात् डिच्चेत्यन्तादेशत्वमेव तातडि युक्तमित्यत आह / तातङि मन्थरं प्रवृत्त इति // डिच्चेति विधिरिति शेषः / तातविषये डिच्चेति विधिमन्थरम्प्रवृत्त इति हेतोः परेण सर्वादेशविधिना बाध्यत इत्यर्थः / कुतो मन्दप्रवृत्तिकत्वभित्यत आह। अनन्यार्थेत्यादिना॥ अन्तादेशत्वादन्योऽर्थो यस्य ङित्त्वस्य न विद्यते नदनन्यार्थम् / तथाविधं ङित्वं येषान्तेषु अनादिषु डिच्चेति विधिः चरितार्थः / लब्धप्रयोजनक इति कृत्वा मन्दम्प्रवृत्त इत्यर्थः / तातडो डित्वन्तु अन्तादेशत्वापेक्षया अनन्या नेत्याह / सम्भवत्प्रयोजनङकारे इति // सम्भवन्ति प्रयोजनानि अन्यानि यस्य सः सम्भवत्प्रयोजनः / तथाविधः डकारः यस्य तथाविधे तातडीत्यर्थः। कथं सम्भवत्प्रयोजनकत्वमित्यत आह / गुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थतयोते // द्विष्टादित्यादी लघूपधादिगुणनिषेधः / स्तुतात् युतादित्यादावुतोवृद्धि कि हलीति विहिताया वृध्देनिषेधः / वशकान्तौ उष्टादित्यत्र अहिज्यावयीति सम्प्रसारणम् / आदिना ब्रूतादित्यत्र व ईडितीटोऽभावस्य संग्रहः / ननु तातविषये डिच्चेति विधिमन्दम्प्रवर्तताम् / अथापि परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीय इति न्यायेन परस्यापि सर्वादेशविधेरपवादभूतेन डिच्चेत्यनेन बाध एवोचित इत्यत आह / इहेति // इह तातविषये अनेकालशित्सर्वस्येति सामान्यशास्त्रस्य डिच्चेति विशेषशास्त्रस्य च समबलत्वात् / सामान्यशास्त्रं विशेषशास्त्रेण न वाध्यत इत्यर्थः / अयं भावः / अपवादशास्त्रस्य परनित्यान्तरङ्गापेक्षया प्राबल्ये निरवकाशत्वमेव बीजम् / प्रकृते च डिच्चेति विधिः अनादिडित्वमन्तादेशत्वैकप्रयोजनकम्। प्रयोजनान्तरविरहेण निरवकाशत्वात् / अटिति परिगृहणन् कृतार्थतामनुभवन तातडो हित्वम प्रयोजनान्तरसत्वेन सावकाशन्वादुपेक्षन इति। For Private And Personal Use Only