________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 197 ब्रवीतु-ब्रूतात् / 'ङिच्च पिन्न' इत्यपित्त्वादीन / ब्रवाणि / ब्रवै। ब्रूयात् / उच्यात् / 'अस्यतिवक्ति-' (सू 2438) इत्यङ् / 2454 / वच उम् / (7-4-20) अङि परे / अवोचत् / अवोचत / अथ शास्यन्ता: परस्मैपदिन: / इङ् त्वात्मनेपदी / इण् 1045 गतौ / एति / इतः / ___ 2455 / इणो यण् / (6-4-81) अजादौ प्रत्यये परे / इयङोऽपवादः / यन्ति / इयाय / 2456 / दीर्घ इणः किति / (7-4-69) वक्ष्यते / ब्रवीतु--ब्रूतादिति // ननु तिबादेशस्य तातङः पित्त्वात् ‘ब्रूव ईट्' इति ईडागमः स्यादित्यत आह / ङिच्चेति // ब्रूताम् / ब्रुवन्तु / ब्रूहि / ब्रूतात् / ब्रूतम् / ब्रूत। ब्रवाणीति // आट: पित्त्वेन ङित्त्वाभावात् न गुणनिषेध इति भावः / ब्रवाव / ब्रवाम। ब्रूताम् / ब्रूष्व / ब्रुवाथाम् / ब्रूध्वमिति सिद्धवत्कृत्य आह / ब्रवै इति // आट: पित्त्वेन ङित्त्वाभावाद्गुणः / बवावहै / ब्रवामहै / लङि अब्रवीत् / अब्रूताम्। अब्रुवन् / अब्रवीः / अब्रूतम्। अब्रूत / अब्रवम् अब्रूव / अब्रूम / विधिलिङ्याह / ब्रूयादिति // ब्रूयातामित्यादि / आशीर्लिङ्याह / उच्यादिति // वच्यादेशे 'वचिखपि' इति सम्प्रसारणमिति भावः / उच्यास्ताम् इत्यादि / आत्मनेपदे आशीलिंङि वक्षीष्ट / वक्षीयास्ताम् इत्यादि / अकित्त्वान सम्प्रसारणम् / लुङि सिचि वच्यादेशे अवच सत् इति स्थिते आह / अस्यतीति // अवच अ त इति स्थिते / वच उम् // शेषपूरणेन सूत्रं व्याचष्टे / अङि परे इति // 'ऋदृशो ङि' इत्यतस्तदनुवृत्तेरिति भावः / मित्त्वादन्त्यादचः परः / आद्गुणः / तदाह / अवोचदिति // अवक्ष्यत् / अवक्ष्यत। इङ्त्विति // 'इङ् अध्ययने' इति धातुस्तु ङित्त्वादात्मनेपदीत्यर्थः / इण गताविति // 'इणो यण' इत्यादौ विशेषणार्थों णकारः। एतीति ॥'शपो लुकि तिपः पित्त्वेन डित्त्वाभावाद्गुणः / इतः इति // अपित्त्वेन ङित्त्वान्न गुणः / इ अन्तीत्यत्र ङित्त्वाद्णाभावे इयति प्राप्ते / इणो यण // 'अचि इनुधातु ' इत्यतः अचीत्यनुवृत्तस्य अङ्गाधिकारलब्धाङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिरित्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे / अजादौ प्रत्यये परे इति / इयङोऽपवादः इति // इयङि प्राप्ते एव तदारम्भादिति भावः / गुणवृद्धौ तु परत्वादस्य बाधकौ / यथा अयनम् , आयकः / यन्तीति // एषि / इथः / इथ / एमि / इवः। इमः / इयायेति // द्वित्वे सति उत्तरखण्डवृद्धौ आयादेशे ‘अभ्यासस्यासवणे' इति इयङ् / अतुसि तु द्वित्वे कित्त्वाद्गुणाभावे इ इ अतुम् इति स्थिते 'इणो यण' इत्युत्तरखण्डस्य यणि इयतुरितिस्थिते / दीर्घ इणः // 'अत्र लोपः' इत्यतः अभ्यासस्येति 'व्यथो लिटि' इत्यतो लिटीति चानुवर्तते। तदाह / For Private And Personal Use Only