________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 सिद्धान्तकौमुदीसहिता [अदादि 2428 / अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झाल कृिति / (6-4-37) 'अनुनासिक-' इति लुप्तषष्ठीकं पदं वनतीतरेषां विशेषणम्। अनुनासिकान्तानामेषां वनतेश्च लोप: स्याज्झलादौ किति परे / यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः / तनुक्षणुक्षिणुऋणुतृणुघृणुवनुमनु तनोत्यादयः / हतः / नन्ति / 2429 / वमोर्वा / (8-4-23) उपसर्गस्थानिमित्तात्परस्य हन्तेर्नस्य णो वा स्याद्वमयोः परयोः / नस्यानुस्वारपरसवौँ / 'नेर्गद' इति णत्वम् / अनुदात्तोपदेश // ऊदृदन्तैरित्यादिभि. स्सङ्ग्रहीता अनुदात्तोपदेशाः वनतिभौवादिकः तनोत्यादयस्तु 'तनु विस्तारे' इत्यादिना पठिष्यन्ते / एतेषामनुनासिकस्य लोपः स्यात् झलादौ क्ङिति इति प्रतीयमानार्थः / एवं सति मुक्तमित्यादौ मुचादीनामपि मकारादिलोपः स्यात् / तत्राह / अनुनासिकः इति लुप्तषष्ठीकं पदमिति // एवमप्युक्तातिप्रसङ्गतादवस्थ्यादाह / वनतीतरेषां विशेषणमिति // अनुदात्तोपदेशानां तनोत्यादीनाञ्चेत्यर्थः / तथाच विशेषणत्वात्तदन्तविधौ अनुनासिकान्तानामनुदातोपदेशानान्तनोत्यादीनां वनतेश्चेत्येषामन्तस्य लोप: स्यादित्यर्थलाभान्मुक्तमित्यादौ नातिप्रसङ्गः / तदाह / अनुनासिकान्तानामित्यादिना // वनधातोस्तु अनुनासिकान्तत्वान्न विशेषणम् / अव्यभिचारादिति भावः / अत्रानुदात्तोपदेशान् अनुनासिकान्तान् दर्शयति / यमिरमीति // अनुदात्तोपदेशेषु एतेषामेव षण्णामनुनासिकान्तत्वादिति भावः / अथ तनोतीत्यादीननुनासिकान्तान् दर्शयति / तनुक्षणुक्षिण्विति // मनु इत्यन्तं समाहारद्वन्द्वात् प्रथमैकवचनम्। एतेऽष्टौ तनोत्यादयोऽनुनासिकान्ता इत्यर्थः / 'तनु विस्तारे' इत्यारभ्य 'डु कृञ् करणे' इत्यन्ता दश धातवस्तनोत्यादयः / तत्र करोतिरनुनासिकान्तत्वाभावादिह न गृह्यते / 'जनसनखनां सन्झलोः' इति सनोतरात्त्वस्य वक्ष्यमाणत्वात् सोऽप्यत्र न गृहीतः / 'वनु याचने' इति तनादौ पठितम् / तस्य उविकरणतया उदित्त्वेन च वनतिग्रहणेनाग्रहणात् तनादौ पठितस्यापि पृथग्ग्रहणम् / तत्र तानादिकस्य वनेरुदित्त्वात् 'उदितो वा' इति वायामिड्डिकल्पात् 'यस्य विभाषा' इति निष्ठायामिडभावपक्षे, वतः, वतवान् , इत्युदाहरणम् / वनतेस्तु भौवादिकस्य उदित्त्वाभावान्निष्टायां सेटकत्वेऽपि क्तिनि वतिरित्युदाहरणम् / 'तितुत्रतथसिसुसरकसेषु च' इति इनिषेधादित्यलम् / हतः इति // तसि अनुदात्तोपदेशानुनासिकान्तत्वानकारलोपः। 'सार्वधातुकमपित्' इति तसो ङित्त्वात् / घ्नन्तीति // अजादिडित्परकत्वात् 'गमहन' इत्युपधालोपे 'हो हन्तेः' इति कुत्वेन हस्य घः / हसि / हथः। हथ / वमोर्वा // 'उपसर्गादसमासेऽपि' इत्यतः उपसर्गादित्यनुवर्तते / 'रषाभ्यानो णः' इति सूत्रमनुवर्तते / 'हन्तेरत्पूर्वस्य' इत्यतो हन्तेरिति / तदाह / उपसर्गस्थानिमित्तादिति // णलि जहा For Private And Personal Use Only