________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / श्रीरस्तु / // अथ तिङन्तादादिप्रकरणम् // अद 1011 भक्षणे / द्वौ परस्मैपदिनौ। 2423 / अदिप्रभृतिभ्यः शपः / (2-4-72) लुक्स्यात् / अत्ति / अत्तः / अदन्ति / / 2424 / लिट्यन्यतरस्याम् / (2-4-40) अदो घस्ल वा स्याल्लिटि / जघास / ' गमहन-' (सू 2363) इत्युपधालोपः / तस्य चविधिं प्रति स्थानिवद्भावनिषेधावस्य चर्वम् / 'शासिवसि-' (सू 2410) इति षत्वम् / जक्षतुः / जक्षुः / घसेस्तासावभावात्थलि नित्य अथ लुग्विकरणान् धातून्निरूपयितुमुपक्रमते / अद भक्षणे इति // अनिडयम् / अदिप्रभृतिभ्यः // ‘ण्यक्षत्रियार्षभितः' इत्यतो लुगित्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे / लुक् स्यादिति // अदिप्रभृतिभ्यः परस्य शपो लुगिति फलितम् / अत्तीति // शपो लुकि दस्य चर्वेन तकारः / एवमत्त इत्यपि / अदन्तीति // एतदर्थमेव 'झोऽन्तः' इत्यत्र अकारादिरादेश आश्रितः / अत्सि / अत्थः / अत्थ / अनि / अद्वः / अद्मः / लिट्यन्यतरस्याम् // 'अदो जग्धिः' इत्यतः अद इति ‘लुङ्सनोर्घस्ल' इत्यतो घस्ल इति चानुवर्तते / तदाह / अदः इति // आदेशे लकार इत् / घसादेशः अनिट् / जघासेति // अकित्त्वात् 'गमहन' इत्युपधालोपो नेति भावः / जघस् अतुसिति स्थिते आह / गमहनेत्युपधालोपः इति // 'असंयोगात्' इति कित्त्वादिति भावः / जघम् अतुसिति स्थिते घकारस्य चत्वं वक्ष्यन् उपधालोपस्य स्थानिवत्त्वमाशङ्कयाह / तस्येति // उपधालोपस्येत्यर्थः। जघस् अतुसिति स्थिते सकारस्य आदेशप्रत्ययावयवत्वाभावादाह / शासीति // थलि तु क्रादिनियमानित्यमिट् / 'उपदेशेऽत्वतः' इति निषेधस्य तासौ नित्यानिविषयत्वात् / घस् तु तासौ न विद्यत एव कुतस्तस्य तासावनिटकत्वम्। 'यस्तासावस्ति अनिट् च' इति हि भाष्यम् / तदाह / घसेस्तासाविति / जघसिथेति // जक्षथुः / जक्ष / जघास-जघस / जक्षिव / For Private And Personal Use Only