________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2190 / दीघीवेवीटाम् / (1-1-6) दीधीवेव्योरिटश्च गुणवृद्धी न स्तः / भविता / 2191 / तासस्त्योर्लोपः / (7-4-50) तासेरस्तेश्च लोप: स्यात्सादौ प्रत्यये परे / 2192 / रि च / (7-4-51) रादौ प्रत्यये प्राग्वत् / भवितारौ / भवितारः / भवितासि / भवितास्थः / भवि इत्यत आह / येन नेति // येन स्थान्युत्तरवर्णेन परनिमित्तस्य नाव्यवधानं व्यवधानं अवर्जनीयमिति यावत् / तेन वर्णेन व्यवहितेऽपि परनिमित्त कार्य भवतीत्यर्थः / कुत इत्यत आह / वचनप्रामाण्यादिति // तथाविधवर्णव्यवधाने कार्यप्रवृत्तौ वचनारम्भस्यैव प्रमाणत्वादित्यर्थः / लघूपधस्यहीको गुणो विधीयते / उपधात्वञ्चान्त्यादल: पूर्वस्यैव भवति / ततश्चेक उपर्यन्त्यस्य वर्णस्याभावे इक उपधात्वाभावाल्लघूपधस्याङ्गस्य गुणविधानं निर्विषयमेव स्यात् / अतस्तद्यवधानं सोढव्यमिति भावः / ननु व्यवहितस्यापीको गुणप्रवृत्यभ्युपगमे भिनत्ति च्छिनत्तीत्यादौ इकारस्यापि गुणस्स्यादित्यत आह / तेनेति // अवर्जनीयव्यवधानस्यैवाश्रयणेनेत्यर्थः / उपधात्वस्यैकमेव वर्णमुपरितनमादाय सम्भवादनेकवर्णव्यवधानं नादर्तव्यामिति भावः / गुणे प्राप्ते इति // भवित् आ इति स्थिते डाभावसम्पन्नस्याकारस्य स्थानिवत्वेन सार्वधातुकतया तस्मिन् परे भवित् इत्यङ्गावयवस्योपधाभूतस्येकारस्य गुणे प्राप्ते सतीत्यर्थः / न च भूधातोर्विहितं सार्वधातुकं प्रति भूधातुरेवाङ्गम् / न तु भवित् इति विकरणविशिष्टमिति वाच्यम्। अङ्गसंज्ञारम्मे तदादिग्रहणेन विकरणविशिष्टस्याप्यङ्गत्वात् / दीधीव इति // दीधीङ् दीप्तिदेवनयोः / वेवीङ् वेतिना तुल्ये। दीधिश्च वेवीश्च इट्चेति द्वन्द्वात् षष्ठी। इको गृणवृद्धी इत्यतो गृणवृद्धी इति। न धातुलोप इत्यतो नेति चानुवर्तते। तदाह / दीधीवेव्योरित्यादिना ॥अथ प्रथमपुरुषद्विवचने तसि परे शबपवादे तासि इडागमे ऊकारस्य गुणे अवादेशे तसो रौभावे भवितास् रौ इति स्थिते रिचेति सकारस्य लोपं वक्ष्यन् तत्रानुवृत्तिप्रतिपत्तये तत्पूर्वसूत्रमुपन्यस्यति / तासस्त्योरिति // तास्चास्तिश्चेति द्वन्द्वात् षष्ठी। सस्यार्धधातुक इत्यतोऽनुवृत्तेन सीति सप्तम्यन्तेनाधिकृताङ्गाक्षिप्तप्रत्ययस्य विशेषणात् तदादिविधिः / तदाह / तासेरित्यादि // अस्तेरिति रितपा निर्देशः / अस् धातोरित्यर्थः। अलोऽन्त्यस्येत्यन्त्यस्य लोपः। भवितासीत्यनुपदमेवोदाहरणं वक्ष्यते। रिचेति ॥तासस्त्योर्लोप इति सूत्रं अस्ति वर्जमनुवर्तते। रीत्यनेनाङ्गाक्षिप्तप्रत्ययस्य विशेषणात्तदादिविधिः / तदाह / रादाविति / प्राग्वदिति // तासेर्लोप इत्यर्थः / अस्तिस्तु नानुवर्तते / ततो रादिप्रत्ययस्यासम्भवात् / आर्धधातुके तस्य भूभावविधानात् / एवञ्च भवितास् रावित्यत्र सलोपे सति रूपमाह / भविताराविति / भवितार इति // झौ तासि इडागमे ऊकारस्य गुणे अवादेशे झेः रस् इत्यादेशे तासस्सकारस्य लोपे रसस्सकारस्य रुत्वविसर्गाविति भावः / For Private And Personal Use Only