________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2417 / अभ्यस्तस्य च / (6-1-33) अभ्यस्तीभविष्यतो ह्वेषः सम्प्रसारणं स्यात् / ततो द्वित्वम् / जुहाव / जुहुवतुः / जुहुवुः / जुहोथ-जुहविथ / जुहुवे / ह्वाता / हूयात् / ह्वासीष्ट / 2418 / लिपिसिचिह्वश्च / (3-1-53) एभ्यश्च्लेरङ् स्यात् / 2419 / आत्मनेपदेष्वन्यतरस्याम् / (3-2-54) 'आतो लोप:' (सू 2372) / अह्वत् / अह्वताम् / अह्वन / अह्वत / अह्वास्त / आकारणार्थः आगच्छेत्यादिशब्दोऽत्र विवक्षितः। ह्वयति-द्वयते इति // शपि गुणायादेशौ / णलादौ अकिति 'लिट्यभ्यासस्य' इति अभ्यासस्यैव सम्प्रसारणे प्राप्ते / अभ्यस्तस्य च // 'ह्वः सम्प्रसारणम्' इत्यनुवर्तते / ह्व इति कृतात्त्वस्य ह्वे इत्यस्य षष्ठ्यन्तम् / तथाच अभ्यस्तीभूतस्य ह्वेनः सम्प्रसारणमिति लभ्यते। तथा सति णलि हे अ इति स्थिते द्वित्वे कृने 'उभे अभ्यस्तम्' इत्यभ्यस्तसंज्ञायामुत्तरखण्डस्य सम्प्रसारणे कृते पूर्वखण्डस्याभ्यासस्य ‘न सम्प्रसारणे सम्प्रसारणम्' इति निषेधः स्यादित्यत आह। अभ्यस्तीभविष्यतः इति // ननु यद्यभ्यस्तीभविष्यतो ह्वेनः सम्प्रसारणं तर्हि द्वित्वं बाधित्वा परत्वात्सम्प्रसारणे सति 'विप्रतिषेधे यद्बाधितन्तद्बाधितम्' इति न्यायात् द्वित्वन्न स्यादित्यत आह / ततो द्वित्वमिति // सम्प्रसारणानन्तरं द्वित्वमित्यर्थः / 'पुनः प्रसङ्गविज्ञानात्' इति भावः / तथाच णलि आत्त्वे कृते सम्प्रसारणे पररूपे हु इत्यस्य द्वित्वे 'कुहोश्चुः' इति श्चुत्वे तस्य जश्त्वे 'अचो णिति' इति वृद्धी आवादेशे परिनिष्टितं रूपमाह / जुहावेति / जुहुवतुरिति // अतुसि आत्त्वे आलोपम्बाधित्वा अन्तरङ्गत्वात् 'अभ्यस्तस्य च' इत्यनेन सम्प्रसारणे 'वार्णादाङ्गम्बलीयः' इत्यस्यानित्यतया अन्तरङ्गात्पूर्वरूपे कृते द्वित्वे उवङिति भावः / यद्यपि किति 'वचिस्वपि'इति सम्प्रसारणेऽपि सिद्धमिदम् / तथापि अकिति आवश्यकमभ्यस्तस्यचेत्येतत् न्याय्यत्वादिहापि भवतीति बोध्यम् / एवं जुहुवुः / भारद्वाजनियमात्थलि वेट् / तदाह / जुहोथ-जुहविथेति // जुहुवथुः / जुहुव / जुहाव-जुहव। जुहुविव / जुहुविम / कादिनियमादिट् / जुहुवे। जुहुवाते। जुहुविरे / जुहुविषे / जुहुवाथे। जुहुविध्वे / जुहुवे / जुहुविवहे / जुहुविमहे / ह्वातेति // तासि आत्त्वम् / ह्वास्यति / ह्वास्यते / ह्वयतु / ह्वयताम् / अह्वयत् / अह्वयत / ह्वयेत् / ह्रयेत / हूयादिति // आशार्लिङि आत्त्वे यासुटि कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणे पूर्वरूपे 'अकृत्सार्वधातुकयोः' इति दीर्घ इति भावः। हासीष्टेति // आशीर्लिङि सीयुटि रूपम् / लुङि विशेषमाह / लिपिसिचि // लिपि सिचि ह्वा एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् / 'च्ले: सिच्' इत्यतः च्लेरिति 'अस्यतिवक्तिख्यातिभ्यः' इत्यतः अङिति चानुवर्तते। तदाह / एभ्यः इति // इदम्परस्मैपदविषयम् / आत्मनेपदे विकल्पविधानात् / तदाह / आत्मनेपदेषु / आतो लोपः इति // अह्वा अत् इति स्थिते 'आतो लोप इटि च' इत्याल्लोप इत्यर्थः। अह्वदिति // अह्वताम् / For Private And Personal Use Only