________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 2416 / न व्यो लिटि / (6-1-46) व्येन आत्त्वं न स्याल्लिटि / वृद्धिः / परमपि हलादिशेषं बाधित्वा यस्य सम्प्रसारणम् / उभयेषां ग्रहणसामर्थ्यात् / अन्यथा वच्यादीनां ग्रह्यादीनां चानुवृत्त्यैव सिद्धे किं तेन / विव्याय / विव्यतुः / विव्युः / 'इडत्यति-' (सू 2384) इति नित्यमिट / विव्ययिथ / विव्याय-विव्यय / विव्ये / व्याता / वीयान / व्यासीष्ट / अव्यामीत / अव्यास्त / ह्वेञ् 1008 स्पर्धायां शब्दे च / ह्वयति / ह्वयते / / देशौ / णलादौ तु आत्त्वे विव्यो विव्यतुरिल्यादि प्राप्तम् / तत्राह / न व्यो लिटि // व्ये इत्यस्य कृतात्वस्य षष्ठ्यन्तस्य व्यः इति निर्देशः / आत्त्वमिति // ‘आदेच उपदेशे' इत्यतः तदनुवृत्तेरिति भावः / वृद्धिरिति // णलि व्ये अ इति स्थिते 'अचो णिति' इति वृद्धिरित्यर्थः / तथाच व्यै अ इति स्थितम् / ननु तत्र द्वित्वे 'लिट्यभ्यासस्य' इत्यभ्यासे यकारस्य सम्प्रसारणे पूर्वरूपे उत्तरखण्डस्य आयादेशे विध्याय इति रूपं वक्ष्यति / तदयुक्तम् / सम्प्रसारणात्प्राक परत्वात् हलादिशेषेण यकारस्य निवृत्तो वकारस्य सम्प्रसारणे उकारे सति उ. व्यायेत्यापत्तेरित्यत आह / परमपीति // उभयेषामिति // 'लिट्यभ्यासस्य' इति सूत्रे उभयेषामिति ग्रहणसामर्थ्यादित्यर्थः / तदेवोपपादयति / अन्यथेति // ‘वचिस्वपियजादीनाम्' इत्यस्य ‘ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृजतिनाम्' इत्यस्य च स्वरितत्वादेवात्रानुवृत्त्यैव सिद्ध पुनर्लिट्यभ्यासस्य इत्यत्र उभयेषां ग्रहणं पुनर्विधानार्थम् / तथाच वच्यादीनां ग्रह्यादीनाञ्चाभ्यासस्य सम्प्रसारणं स्याल्लिटीति द्विविधानं लब्धम् / तत्र द्वितीयं विधानं नियमार्थम् / उभयेषामभ्यासस्य सम्प्रसारणमेव स्यानेतरदिति / तेनाभ्यासे एतत्स. म्प्रसारणविषये कार्यान्तरनिवृत्तिस्सिद्धेत्यर्थः / तथाच प्रकृते अभ्यासयकारस्य सम्प्रसारणे सिद्ध रूपमाह / विव्यायेति / विव्यतुः। विव्युः इति // ‘वचिस्वपि' इति सम्प्रसारणे द्वित्वे यणिति भावः / थलि भारद्वाजनियमादिविकल्पमाशङ्कयाह / इडत्यति // विव्यायथे. ति // अकित्त्वादभ्यासस्य सम्प्रसारणमिति भावः / विव्यथुः / विव्य / विव्याय-विव्य. येति // अकित्त्वादभ्यासस्य सम्प्रसारणे णित्त्वविकल्पाद्वृद्धिविकल्प इति भावः / विव्यिव / विव्यिम / विव्ये इति // कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणे पूर्वरूपे वि इत्यस्य द्वित्वे यणिति भावः / विव्याते। विव्यिरे / विव्यिषे / विव्याथे / विव्यिध्वे / विव्ये। विव्यिवहे / विव्यिमहे / व्यातेति // तासि एकारस्य आत्त्वम् / व्यास्यति। व्ययतु। व्ययताम् / अव्ययत् / अव्ययत / व्ययेत् / वीयादिति // कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणे पूर्वरूपे 'अकृत्सार्वधातुकयोः' इति दीर्घः / वीयास्ताम् / व्यासीष्टेति // आशीर्लिङि सीयुटि आत्त्वम् / अव्यासीदिति // लुद्धि सिचि आत्त्वे इट्सकोः सिज्लोपः / अव्यासिष्टामित्यादि / अव्यास्तेति // लुङि आत्मनेपदे अव्ये स् त इति स्थिते आत्त्वमिति भावः। अव्यासातामित्यादि / अव्यास्यत् / अव्यास्यत / ह्वेञ् धातुरनिट् / जित्त्वादुभयपदी। शब्दे चेति // For Private And Personal Use Only