________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 173 2411 / वेञो वयिः / (2-4-41) वा स्याल्लिटि / इकार उच्चारणार्थः / उवाय / 2412 / अहिज्यावयिव्यधिवष्टिविचतिवृश्चति पृच्छतिभृज्जतीनां ङिति च / (6-1-16) एषां किति ङिति च सम्प्रसारणं स्यात् / यकारस्य प्राप्ते / 2413 / लिटि वयो यः / (6-1-38) वयो यस्य सम्प्रसारणं न स्याल्लिटि / ऊयतुः / ऊयुः / 2414 / वश्चास्यान्यतरस्यां किति / (6-1-39) वयो यस्य वो वा स्यात्किति लिटि / ऊवतुः / ऊचुः / वयेस्तासावभाहलन्तलक्षणवृद्धौ सस्य तकारः / अवात्तामिति // अवस् स् तामिति स्थिते वृद्धौ ‘झलो झलि' इति सलोपे प्रत्ययलक्षणमाश्रित्य सकाराद्यार्धधातुकपरत्वात् धातुसकारस्य 'सस्सि' इति तकारः / वस्तुतस्तु सिज्लोपस्यासिद्धत्वात् ‘सस्सि' इति तकारे सिज्लोप इति बोध्यम् / अवात्सुः / अवात्सीः। अवात्तम्। अवात्त। अवात्सम् / अवात्स्व / अवात्स्म / अवत्स्यत् / वेञ्धातुरनिट् / जित्त्वादुभयपदी / तन्तुसन्तानः पटनिर्माणार्थन्तन्तूनान्तिर्यगतिर्यक्प्रसारणविशेषः / वयति-वयते इति॥ शपि गुणायादेशौ / वेो वायः॥ शेषपूरणेन सूत्रं व्याचष्टे / वा स्याल्लिटीति // 'लिट्यन्यतरस्याम्' इत्यतः अन्यतरस्यामित्यनुवृत्तेरिति भावः। उच्चारणार्थः इति // इकारस्य इत्संज्ञकत्वे तु नुम् स्यादिति भावः / उवायेति // णलि वयादेशे यजादित्वादकिति लिटि परे 'लिट्यभ्यासस्य' इति वकारस्य सम्प्रसारणे उपधावृद्धिरिति भावः / अत्र यकारस्य तु न सम्प्रसारणम्। 'लिटि वयो यः' इति तनिषेधस्यानुपदमेव वक्ष्यमाणत्वादिति भावः / यद्यपि णलि वयादेशाभावेऽपि द्वित्वे अभ्यासस्य सम्प्रसारणे 'अचो णिति' इति वृद्धौ आयादेशे उवायेति सिद्ध्यति / तथापि ऊयतुरित्याद्यर्थ वयादेशस्य आवश्यकत्वादिहापि वयादेशो न्याय्यत्वादुपन्यस्तः / वे अतुस् इति स्थिते वयादेशे कृते / अहिज्या // चकारेण ‘वचिस्वपियजादीनाम्' इत्यतः कितीति समुच्चीयते / ध्यङस्सम्प्रसारणमित्यतः सम्प्रसारणमित्यनुवर्तते / तदाह / एषामित्यादि // अत्र परस्मैपदिग्रह्यादिसाहचर्यात् 'अयवयपय' इति पठितस्यात्मनेपदिनो वयेन ग्रहणम् / यजादित्वादेव वयेः सम्प्रसारणे सिद्धे अत्र वयग्रहणं स्पटार्थमिति भाष्ये स्पष्टम् / इति यकारस्य प्राप्ते इति // 'न सम्प्रसारणे सम्प्रसारणम्' इति लिङ्गादन्त्यस्य यणः पूर्व सम्प्रसारणमिति विज्ञानाद्यकारस्य सम्प्रसारणे प्राप्ते सतीत्यर्धः / लिटि वयो // सम्प्रसारणन्नेति // 'न सम्प्रसारणे सम्प्रसारणम्' इत्यतः तदनुवृत्तेरिति भावः / तथा च यकारस्य सम्प्रसारणनिषेधे वकारस्य सम्प्रसारणमिति भावः / तदाह / ऊय. तुरिति // वश्चास्य // ‘लिटि वयो यः' इत्यनुवर्तते / तदाह / वयो यस्येत्यादि / For Private And Personal Use Only