________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 165 ष: स्यात् / आसेवनं पौनःपुन्यं ततोऽन्यस्मिन्विषये / निष्टपति / त्यज 986 हानौ / तत्यजिथ-तत्यक्थ / त्यक्ता / अत्याक्षीत् / षञ्ज 987 सङ्गे / 'दशसञ्जस्वञ्जा शपि' (सू 2396) इति नलोपः / सजति / सङ्का / दृशिर् 988 प्रेक्षणे / पश्यति / 2404 / विभाषा सृजिदृशोः / (7-2-65) आभ्यां थल इड्वा / 2405 / सृजिदृशोझल्यमकिति / (6-1-58) इत्यधिकारादिति भावः / निसः सकारस्य षः स्यात् तपधातो परत इति यावत् / अनासेवने इत्येतद्याख्यास्यन् आसेवनशब्दं व्याचष्टे / पौनःपुन्यमिति // आसेवनशब्देन सह नञ्समास इत्यभिप्रेत्याह / ततोऽन्यस्मिन्विषये इति // आदेशत्वाभावात् पदान्तत्वाच्च अप्राप्ते वचनम् / निष्टपतीति // निष्कृष्य तपतीत्यर्थः। निसस्सस्य षत्वे तकारस्य टुत्वेन ट: / आसेवने तु न षत्वम् / त्यज हानाविति // हानिरुत्सर्गः / अयमनिट् / त्यजति / तत्याज / तत्यजतुः / तत्यजुः / संयुक्तहल्मध्यस्थत्वादेत्त्वाभ्यासलोपौ न / थलि तु भारद्वाजनियमाद्वेट् / तदाह / तत्यजिथ-तत्यक्थेति // इडभावे चोः कुरिति भावः / त्यक्तेति // त्यक्ष्यति / त्यजतु / अत्यजत् / त्यजेत् / त्यज्यात् / अत्याक्षीदिति // हलन्तलक्षणा वृद्धिरिति भावः / अत्यक्ष्यत् / षञ्ज सङ्गे इति // षोपदेशोऽयमनिट् नोपधश्च / कृतानुस्वारपरसवर्णस्य निर्देशः। शपः पित्त्वेन कित्त्वाभावात्तस्मिन्परे ‘अनिदिताम्' इति नलोपाप्रवृत्तेराह / देशसञ्जेति / नलोपः इति // अनुस्वारपरसवर्णयोरसिद्धत्वादिति भावः / सजतीति // लिटि तु ससञ्ज / अतुसादौ तु कित्त्वान्न लोपः / ससजतुः। ससजुः / थलि भारद्वाजनियमाद्वेट् / ससजिथ-ससङ्क्थ / इडभावे जस्य कुत्वेन गकारे तस्य चर्वे सति अनुस्वारपरसवर्णसम्पन्नस्य चवर्गपञ्चमस्य निवृत्ती ककारे परे नकारस्य परसवर्णो डकारः ससजथुः / ससज। ससन्ज / ससजिव / ससजिम / क्रादिनियमादिट् / सङ्केति // तासि जस्य कुत्वेन गकारे तस्य चर्वे सति अस्य निवृत्तौ नस्य डकार इति भावः / सक्ष्यति // सजतु / असजत् / सजेत् / सज्यात् / असाङ्क्षीत् / हलन्तत्वादृद्धिः। असक्ष्यत् / दृशिर प्रेक्षणे इति॥ इरित् / अनिट् च / पश्यतीति // शिति 'पाघ्राध्मा' इति पश्यादेश इति भावः / ददर्श / ददृशतुः। ददृशुः / थलि तु क्रादिनियमान्नित्यमिट प्राप्तः / अजन्ताकारवत्त्वाभावात् 'अचस्तास्वत्' इति उपदेशे अत्वत' इति निषेधस्य चाप्राप्तः ऋदन्तत्वाभावेन भारद्वाजनियमस्याप्रसक्तेः / तत्राह। विभाषा सृजि // पञ्चम्यर्थ षष्ठी / 'गमेरिट्' इत्यतः इडिति 'अचस्तास्वत्' इत्यतः थलीति चानुवर्तते / तदाह / आभ्यामिति // इडभावपक्षे 'अनुदात्तस्य' इति अमागमविकल्पे प्राप्ते / सृजिदृशोः // अम् अकिति इति च्छेदः / नित्यार्थमिदम् / For Private And Personal Use Only