________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 159 तु स्वरितेतौ / एते नित्यं सन्नन्ताः / अर्थान्तरेषु त्वननुबन्धकाश्चुरादयः / अनुबन्धस्य केवलेऽचरितार्थत्वात्सन्नन्तात्तङ् / धातोरित्यविहितत्वात्सनोऽत्र नार्धधातुकत्वम् / तेनेड्गुणौ न / जुगुप्सते / जुगुप्साञ्चक्रे / तितिक्षते / मीमांसते / भष्भावः / चत्वम् / बीभत्सते / रभ 974 राभस्ये / आरभते / स्वरितेत्सु पाठादिति भावः / एते नित्यं सन्नन्ता इति // एते गुप्तिजादयः सप्त धातवः गुपेनिन्दायामित्यादिनिबद्धेवर्थेषु नित्यं सन्नन्ताः / निन्दाद्यर्थकत्वे सनं विना एषाम्प्रयोगो नास्तीत्यर्थः / अर्थान्तरेषु त्विति // निन्दादिभ्योऽन्येषु धातुपाठनिर्दिष्टेषु तदन्येषु चार्थेषु अनुदात्तानुबन्धरहिता स्सन्तश्चौरादिका एव भवन्ति, न तु भौवादिका इत्यर्थः / चुरादिष्वेतेषामनुदात्तानुबन्धकत्वे अनुबन्धकरणस्य केवलेष्वचरितार्थतया ण्यन्तात्कर्तृगेऽपि फले तङ् स्यादिति भावः / नन्वेव सति भ्वादिगणे गुपादेरनुदात्तानुबन्धकरणं व्यर्थम् / उक्तरील्या गोपनाद्यर्थकानामेषामनुवन्धरहितचौरादिकत्वनियमेन निन्दाद्यर्थेषु सन्नन्तनियमेन च ततोऽन्यत्र प्रयोगाभावादित्यत आह / अनुबन्धस्येति // गुपादिषु केवलेष्वनुबन्धनिर्देशस्य निष्फलतया अनुबन्धनिर्देशस्य सन्नन्तार्थत्वं विज्ञायत इति कृत्वा सन्नन्तात्तङित्यर्थः / नचैवमपि भ्वादिगणे एषाङ्गोपनाद्यर्थनिर्देशो व्यर्थ एवेति वाच्यम् / भ्वादौ तदर्थनिर्देशस्य अपाणिनीयत्वादिति भावः / तदुक्तम्भाष्ये / 'गुपादिष्वनुबन्धकरणसामर्थ्यात्सन्नन्तादात्मनेपदम्' इति / अत्र सनन्तादात्मनेपदमित्युक्त्या केवलानामेषां शब्विकरणानां नास्ति प्रयोग इति सूचितम् / तथा चुरादिष्वेषामनुदात्तानुबन्धराहित्यमित्यपि सूचितम् / अन्यथा अनुबन्धकरणस्य केवलेष्वचरितार्थत्वात् सन्नन्तादिव ण्यन्तादपि कर्तृगे फले आत्मनेपदार्थत्वापातात्सन्नन्तादात्मनेपदामत्युक्तिरसङ्गता स्यादित्यन्यत्र विस्तरः / धातोरितीति // 'आर्धधातुकं शेषः' इत्यत्र धातोर्विहितः प्रत्यय इति विहितविशेषणाश्रयणात् सनश्चास्य धात्वधिकारविहितत्वाभावानार्धधातुकत्वमित्यर्थः / तेनेति // सन आर्धधातुकत्वाभावेनेत्यर्थः / जुगुप्सते इति // निन्दतीत्यर्थः / गुपेः सनि अनार्धधातुकत्वादिगुणयोरभावे 'सन्यङोः' इति द्वित्वे हलादिशेष अभ्यासकुत्वे जश्त्वे इति भावः / जुगुप्साञ्चक्रे इति // कास्प्रत्ययादित्याम् / जुगुप्सिता / जुगुप्सिष्यते / जुगुप्सताम् / अजुगुप्सत / जुगुप्सेत / जुगुप्सिषीष्ट / अजुगुप्सिष्ट / अजुगुप्सिष्यत। तितिक्षते इति // तीक्ष्णीकरोतीत्यर्थः / तिजेः सनि द्वित्वादि / जस्य कुत्वेन ग: तस्य चर्वेन कः सस्य षत्वमिति विशेषः / मीमांसते इति // विचारयतीत्यर्थः / मान्धातोः सनि द्वित्वे हलादिशेषे अभ्थासहस्वे 'सन्यतः' इति इत्त्वे मान्बधेत्यभ्यासदीर्घ, नश्चेत्यनुस्वारे, मीमांसधातोलडादीति भावः / बध. धातोः सनि विशेषमाह / भष्भावः इति // बकारस्य भकार इत्यर्थः / चर्वमिति // धस्य तकार इत्यर्थः / तथाच भत्सेति सन्नन्तं सम्पन्नम् / बीभत्सते इति // भत्वचर्वयोरसिद्धत्वात् वध् इत्यस्य द्वित्वे हलादिशेषे 'सन्यतः' इति इत्त्वे 'मान्बध' इति दीर्घ बीभत्सधातोलडादीति भावः / तदेवनुपादिषु सप्तसु सन्नन्तेषु अत्र क्रमे धातुपाठे निबद्धाश्चत्वार उदाहृताः / कितमानशानधातवस्तु अनुपदमेव धातुपाठक्रमे पटिष्यमाणास्तत्रतत्रोदाहरिष्यन्ते / रभ For Private And Personal Use Only