________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 141 2370 / आदेच उपदेशेऽशिति / (6-1-49) उपदेशे एजन्तस्य धातोरात्त्वं स्यान्न तु शिति / 2371 / आत औ णलः / (7-1-34) आदन्ताद्धातोर्णल औकारादेश: स्यात् / दधौ / 2372 / आतो लोप इटि च / (6-4-64) अजाद्योरार्धधातुकयो: क्ङिदिटोः परयोरातो लोप: स्यात् / द्वित्वाटित्त्वम् / अवयवे टित्त्वस्य व्यर्थतया समुदायार्थत्वादिति हरदत्तः / आदेचः। एजन्तस्य धातोरिति // 'लिटि धातोः' इत्यतः धातोरित्यनुवृत्तं एचा विशेष्यते / तदन्तविधिरिति भावः / न तु शितीति // श् चासौ इचेति कर्मधारयात्सप्तमी / प्रत्ययविशेषणत्वात्तदादिविधिः / इत्संज्ञकशकारादौ प्रत्यये परे इति लभ्यते / 'ल्यपि च' 'न व्यो लिटि' इत्यादिपूर्वोत्तरसूत्राणाम्प्रत्ययेष्वेव प्रवृत्त्या प्रत्यये इति विशेष्यलाभः / अशितीति न पर्युदासः / तथा सति शिद्भिन्ने प्रत्यये परे इत्यर्थः / ततश्च सुग्ल: इत्यत्र ग्लैधातोः 'आतश्चोपसर्गे' इति कप्रत्ययो न स्यात् / कप्रत्ययनिमित्तमात्त्वम् आदन्तात्प्रत्यय इत्यन्योन्याश्रयात् / शिति नेति प्रसज्यप्र. तिषेधे तु आत्त्वस्य अनैमित्तिकतया कप्रत्ययनिमित्तकत्वाभावात् प्रथममात्त्वे कृते कप्रत्ययः सूपपादः / शितीति बहुव्रीह्याश्रयणे ग्लैधातो वे लिटि ‘भावकर्मणोः' इति तङि एशि आत्त्वे आतो लोपे जग्ले इति न सिद्ध्येत् / एशशित्त्वेन तस्मिन्परे आत्त्वस्य निषेधात् / अतः कर्मधारयमाश्रित्य इत्संज्ञकशकारादौ प्रत्यये परे नेत्यर्थ आश्रितः। एवञ्च पर्युदासेऽपि न क्षतिः / इत्संज्ञकशकारादिप्रत्यये विवक्षिते इत्याश्रयणेन सुग्ल इत्यत्र कप्रत्ययात्प्रागेव आत्त्वोपपत्तेः / उपदेशे किम् / चेता, स्तोता / धातोः किम् / गोभ्याम् / ‘गमेझैः' इति डोप्रत्ययोपदेशादप्राप्तिः। उपदेशे यः एच् तदन्तत्वाभावाद्मेः / न च मेडादीनामुपदेशे एजन्तत्वाभावात् कथमात्त्वमिति न शङ्कयम् / 'उदीचाम्माङः" इति निर्देशेन नानुबन्धकृतमनेजन्तत्वमिति ज्ञापनादित्यास्तान्तावत् / तथाच प्रकृते लिटि द्वित्वादी दधा अ इति स्थिते / आत औ // औ इति लुप्तप्रथमाकम् / अङ्गस्येत्यधिकृतम्पञ्चम्या विपरिणम्यते / आत इति तद्विशेषणम् / तदन्तविधिः / तदाह / आदन्ताद्धातोरिति // णलप्रकृ. तिश्च धातुरेवेति धातुग्रहणम् / तथाच णल औत्वे वृद्धौ रूपमाह / दधाविति // दधा अतुसिति स्थिते। आतो लोपः // आर्धधातुके इत्यधिकृतम् / दीङो युडित्यतः अचि विडतीतिचानुवर्तते / अचीत्यार्धधातुकविशेषणत्वात्तदादिविधिः। डिति अजाद्याधधातुके इटि च आतो लोपः इति लभ्यते / फलितमाह / अजाद्योरिति // इट: आर्धधातुकत्वन्तु तदवयवत्वाद्बोध्यम् / ड़ितीति च इटो न विशेषणम् / इड्ग्रहणसामर्थ्यात् / इडित्यनेन उत्तमपुरुषैकवचनम् इडागमश्च गृह्यते। अजाद्योः किम् / ग्लैधातोः कर्मणि लटि यकि ग्लायते। आर्धधातुकयोः किम् / यान्ति / वान्ति। दधौ इत्यत्र तु क्डित्वाभावान्नाल्लोपः / For Private And Personal Use Only