________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 135 2361 / सदेः परस्य लिटि / (8-6-118) सदेरभ्यासात्परस्य पत्वं न स्याल्लिटि। निषसाद / निषेदतुः। शदल 855 शातने / विशीर्णतायामयम् / शातनं तु विषयतया निर्दिश्यते / 2362 / शदेः शितः / (1-3-60) शिद्भाविनोऽस्मादात्मनेपदं स्यात् / शीयते / शशाद / शेदतुः / शेदिथ। शशत्थ / शत्ता / अशदन / क्रुश 856 आह्वाने रोदने च / क्रोशति / क्रोष्टा / च्ले: क्सः। अक्रुक्षत् / कुच 85.7 सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु / कोचति / चुकोच / बुध 858 अवगमने / बोधति / बोधिता / बोधिष्यति / परस्य 'स्थादिष्वभ्यासेन' इति षत्वे प्राप्ते। सदेः परस्य // 'न रपर' इत्यतः नेत्यनुवर्तते। मूर्धन्य इत्यधिकृतम् / सदेरित्यवयवषष्टी / परशब्द उत्तरखण्डपरः / सदेहत्तरखण्डस्य षत्वनेति लभ्यते / फलितमाह। सदेरभ्यासात्परस्येति / शदल शातने इति // ननु शद्धातोरस्मात् हेतुमण्ण्यन्तात् ल्युटि ‘शदेरगतौ तः' इति दकारस्य तकारे शातनशब्दः / तथाच शातनं शीर्णतानुकूलक्रियेति फलति / एवञ्च सकर्मकत्वापत्ती विशीर्यतीत्यर्थे शीर्यत इति वक्ष्यमाणमुदाहरणं कथमित्यत आह / विशीर्णतायामिति // विशरणे इत्यर्थः / तर्हि कथं शातनमिति हेतुमणिजित्यत आह / शातनन्तु विषयतयेति // विपूर्वात् ‘षिञ् बन्धने' इत्यस्मात् विषयशब्दः / अविनाभावेनेत्यर्थः / प्रयोजकव्यापारं विना विशरणस्यासम्भवात् शातननिर्देशः / ण्यर्थस्याविवक्षितत्वात् विशरणमेव शदलधात्वर्थ इति यावत् / शदेः शितः // 'अनुदात्तडितः' इत्यस्मादात्मनेपदमित्यनुवर्तते / श् इत् यस्य सः शित् / शप विवक्षितः। शिति विवक्षिते सतीत्यर्थः / तिडुत्पत्तेः पूर्व सार्वधातुकाश्रयस्य शपोऽसम्भवात् / तदाह / शिद्भाविन इति // शिद्भावी भविष्यन् यस्मात्स शिद्भावी तस्मादित्यर्थः। शीयते इति // शपि सदे: शीयादेशः। विशीर्यतीत्यर्थः / शीयेते / शीयन्ते / इत्यादि / शिद्विषयादित्युक्तेलिटि नात्मनेपदम् / इत्संज्ञकशकारादावित्युक्तेन शीयादेशः / तदाह / शशादेति // अनिट्कोऽयम् / कादिनियमप्राप्तस्य इट: ‘उपदेशेऽत्वतः' इति नियमात्थलि भारद्वाजनियमात् वेट् / तदाह / शेदिथ। शशत्थेति च // इट्पक्षे 'थलि च सेटि' इत्येत्त्वा. भ्यासलोपाविति भावः। शेदिव। शेदिम। क्रादिनियमादिट् / अशददिति // लूदित्त्वादडिति भावः। क्रुश धातुरनिटकः / चुक्रोशिथ / क्रादिनियमात्थलि नित्यमिट / अजन्ताकारवत्त्वाभावान भारद्वाजनियमः। चुक्रुशिव / चुकुशिम / क्रोष्टेति // ब्रश्चादिना शस्य षत्वे तृत्वेन तकारस्य टः / च्ले क्स इति // इगुपधशलन्तत्वादिति भावः। अक्रुक्षदिति // व्रश्चादिना शस्य षः। 'षढोः' इति षस्य कः / सस्य षत्वम् / कित्त्वान्न गुणः / नापि हलन्तलक्षणा वृद्धिः / कुच सम्पर्चने इति // 'कुच शब्दे ' इति पठितस्य पुनरिह पाठः सम्पर्चनादावेव ज्वलादिकार्यणप्रत्ययार्थः / अर्थनिर्देश: क्वचित्पाणिनीय इति भूधातौ प्रपञ्चितम् / बुध For Private And Personal Use Only