________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 131 मतं वृत्तिन्यासादिविरोधादुपक्ष्यम् / फण 821 गतौ / 'न' इति निवृत्तमसम्भवात् / निषेधात्पूर्वमसौ न पठितः / फणादिकार्यानुरोधात् / 2354 / फणां च सप्तानाम् / (6-4-125) एषां वा एत्त्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च / फेणतुः / फेणुः / पफणतुः / पफणुः। फेणिथ / पफणिथ। फणयति। 'वृत्' घटादिः समाप्तः। फणे: प्रागेव बृदित्येके / तन्मते फाणयतीत्येव / राजु 822 दीप्तौ / 'स्वरितेत्' / राजति-राजते / रेजतुः-रराजतुः / रेजे-रराजे / 'अत:' इत्यनुवृत्तावपि विधानसामर्थ्यादात एत्त्वम् / टु भ्राजु 823 टु भ्रागृ 824 टु भ्ला 825 दीप्तौ / अनुदात्तत: / भ्राजतेरिह पाठः फणादिकार्यार्थः। पूर्व पाठस्तु ब्रश्चा वेषणे / स्खदिरवपरिभ्याञ्चेति सूत्रद्वये उक्तरीत्या मित्त्वनियमविद्ध्याश्रयणादुदाहरणप्रत्युदाहरणयोरुक्तरीत्या व्यत्यासः फलित इत्यर्थः / उपेक्ष्यामिति // 'न पादमाङ्' इति सूत्रव्याख्यावसरे यमोऽपरिवेषणे इति मित्त्वम्प्रतिषिध्यत इति वृत्तिन्यासयोरुक्तत्वादिति भावः / केचित्तु स्वामिमते पर्यवसितनियमयनित्यादिसामनस्यात्तावेवोपेक्ष्यावियाहुः। फण गताविति // ननु घटादित्वेऽपि नाय मित् / इतः प्राक 'स्वन अवतंसने' इति उत्तरमेव घटादयो मित इत्युक्तेः / तत्राह। न इति निवृत्तमसम्भवादिति // प्राप्तिं विना मित्त्वस्य निषेधासम्भवादिह नेति नानुवर्तते, किन्तु मिदित्येवानुवर्तत इत्यर्थः / ननु फण गतावियत्र मिनेति यदि नानुवर्तते तर्हि 'न कम्यमिचमाम्' इति निषेधकाण्डात् प्रागेवायकुतो न पठितः। तदाह / निषेधात्पूर्वमसौ न पठित इति // कुन इत्यत आह / फणादिकार्यानुरोधादिति // निषेधकाण्डात्प्रागेव फणे: पाठे कम्यमिचमानामपि फणादिष्वन्तर्भावः स्यादिति भावः। फणाञ्च॥ 'अत एकहल्मध्ये' इत्यतो लिटीति थलिच सेटि' इति चानुवर्तते / 'ध्वसोः' इत्यतः एदिति, गमहनेत्यतः कितीति वा भ्र. मुत्रसाम्' इत्यतो वेति च / तदाह / एषामिति // फणादीनामित्यर्थः। फणामिति बहुवचनात् तदादिलाभः / ‘फा गतो' इत्यत मिदित्येवानुवर्तते नेति तु नानुवर्तते इत्यस्य प्रयोजनमाह / फणयतीति / वृदिति // कर्तरि किंवन्तम् / वृतुधातुरिह समाप्त्यर्थकः / तदाह / घटादिः समाप्त इति। फणेः प्रागेवेति // एवं सति फणेरघटादित्वान्न मित्त्वमिति भावः / तदाह / तन्मते फणयतीत्येवेति // इति घटादयः / राजू दीप्ताविति // इत आरभ्य षण्णामेत्त्वाभ्यासलोपौ फणादित्वात्पक्षे भवतः / तदाह / रेजतुरित्यादि // ननु ‘फणाञ्च सप्तानाम्' इत्यत्र अत इत्यनुवृत्तेः कथमिह एत्त्वाभ्यासलोपावित्यत आह / अत इत्यनुवृत्तावपीति // अत इति नानुवर्तते / तदनुवृत्तावपि फणादिसप्तानामपि वचनसामर्थ्यात् राजधातोराकारस्याप्येत्वाभ्यासलोपस्य विकल्पः स्यादेवेत्यर्थः / अत इति राजादिधातौ न सम्बध्यते, असम्भवादिति यावत् / टु भ्राज टु भ्राट टु भ्लाथ दीप्ताविति // टुरित / द्वितोऽथुजित्येतदर्थः / अनुदात्तेत इति // एते त्रय इति शेषः / ननु टु भ्राज़ इत्येव सिद्धौ पूर्वञ्चवर्गान्तेष्वनुदात्तेत्सु For Private And Personal Use Only