________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 130 सिद्धान्तकौमुदीसहिता [भ्वादि तीत्यर्थः। ‘पर्यवसितं नियमयन' इत्यादि तु नियमवच्छब्दात्तत्करोतीति णौ बोद्ध्यम् / स्खदिर् 820 अवपरिभ्यां च' (ग सू 194) / मिन्नेत्येव / अवस्खादयति / परिस्खादयति / 'अपावपरिभ्यः' इति न्यासकार: / स्वामी तु 'न कमि-इति नजमुत्तरविसूत्र्यामननुवर्त्य * शम: अदर्शने' इति चिच्छेद / यमस्तु * अपरिवेषणे' मित्त्वमाह / तन्मते ‘पर्यवसितं नियमयन' इत्यादि सम्यगेव / * उपसृष्टस्य स्खदेश्वेदवादिपूर्वस्य' इति नियमात्प्रस्खादयतीत्याह / तस्मात्सूत्रद्वये उदाहरणप्रत्युदाहरणयोर्व्यत्यास: फलितः / इदञ्च ह्रस्व इत्यत आह / पर्यवसितमित्यादि // नियमननियमः। 'यमः समुपनिविषु च' इति भावे कप्रत्ययः / तस्मान्मतुप् / नियमवच्छब्दात्तत्करोतीति णिचि ‘विन्मतोलक्' इति मतुपो लुकि ण्यन्तालटश्शतरि गुणायादेशयोर्नियमयच्छब्द इति भावः / वस्तुतस्तु मतुपो लुकि टिलोपस्याप्राप्त्या 'अचो णिति' इति वृद्धौ पुगागमापत्तिः / ततश्च नियमवदित्यर्थकात् अर्श आद्यजन्तात् नियमशब्दात् 'तत्करोति' इति णिचि इष्टवत्त्वाहिलोपे तस्य स्थानिवत्त्वादुपधावृद्ध्यभावे नियमयनिति समर्थनीयमिति शब्देन्दुशेखरे स्थितम् / 'स्खदिरवपरिभ्याञ्च' इत्यपि गणसूत्रम् / स्खदिरिति इका निर्देशः / अव परि आभ्याम्परः स्खदधातुर्मिनेत्यर्थः / 'स्खद स्खदने' इति घटादौ पाठान्मित्त्वप्राप्तिः / परिस्खादयतीति // अषोपदेशत्वेन आदेश सकारत्वाभावान्न ष इति भावः / अपावेति // ‘स्खदिरपावपरिभ्यः' इति न्यासकारः / पपाठेत्यर्थः / तन्मते अपस्खादयतीत्यत्रापि मित्त्वाभावान इस्वः / स्वामी त्विति // 'न कम्यमिचमाम्' इत्यत्र श्रुतः नञ् ‘शमो दर्शने' 'यमोऽपरिवेषणे' 'स्खदिरवपरिभ्याञ्च' इति त्रिषु सूत्रेषु नानुवर्तते / शमः अदर्शने इति च्छेदः / शमधातुः अदर्शने मित्स्यादित्यर्थः / अमन्तत्वादेव सिद्धे नियमार्थमिदम् / अदर्शन एव शमधातुमित्स्यात नतु दर्शने इति स्वामिमतम् / इदञ्च पर्यवसानगत्या पूर्वमतानातिरिच्यते / यमस्त्विति // यमधातोस्तु अपरिवेषण एव मित्त्वमाहेत्यर्थः / अमन्तत्वादेव सिद्धेरपरिवेषण एव यमधातुर्मित् नतु परिवेषण इति फलति / एवञ्च द्राघयति व्यापारयति वेत्यर्थे मित्त्वाद्रस्वे आयमयतीत्येव रूपम् / परिवेषणे तु मित्त्वाभावाद्रस्वाभावे यामयति ब्राह्मणानिति भवतीति पूर्वमताद्विपरीतम्फलति। एवञ्च पर्यवसितनियमयन्नित्यत्र यमेरपरिवेषणार्थत्वान्मित्त्वे ह्रस्वो निर्वाधः / तदाह / तन्मते इति // स्खदेर्घटादित्वादेव मित्त्वसिद्धेः स्खदिरवपरिभ्याञ्चेति सूत्रमपि नियमार्थम् / सोपसर्गस्य चेत् स्खदेर्मित्त्वं तर्हि अवपरिभ्यां परस्यैव मित्त्वं न तूपसर्गान्तरादिति / एवञ्च प्रस्खादयतीत्यत्र मित्त्वाभावान ह्रस्वः। अवस्खदयति परिस्खदयति इत्यत्र तु मित्त्वाद्रस्व इति फलति / तदाह / उपसृष्टस्येति // सोपसर्गस्येत्यर्थः / पूर्वमते तु अवपरिभ्याम्परस्य मित्त्वनिषेधादवस्खादयति परिस्खादयतीति न ह्रस्वः / प्रस्खदयतीत्यत्र तु अवपरिपूर्वकत्वाभावेन मित्त्वनिषेधाभावाद्रस्व इति विपरीतम् / तस्मादिति // यमोऽपरि For Private And Personal Use Only