________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 सिद्धान्तकौमुदीसहिता [भ्वादि निशानेष्विति पठतां हरदत्तादीनां मते तु न काप्यनुपपत्तिः / कम्पने चलि: 812 / चल कम्पने इति ज्वलादिः / चलयति शाखाम्। कम्पनादन्यत्र तु शीलं चालयति / अन्यथा करोतीत्यर्थः / 'हरतीत्यर्थः' इति स्वामी / सूत्रं चालयति / क्षिपतीत्यर्थः। छदिर 813 ऊर्जने। 'छद अपवारणे' इति चौरादिकस्य स्वार्थे णिजभावे मित्त्वार्थोऽयमनुवादः / अनेकार्थत्वादूर्जेरर्थे वृत्ति: / छदन्तं प्रयुङ्क्ते छदयति / बलवन्तं प्राणवन्तं वा करोतीत्यर्थः / अन्यत्र छादयति / अपवारयन्तं प्रयुक्त इत्यर्थः / स्वार्थे णिचि तु छादयति / बलीभवति प्राणीभवति अपवारयति वेत्यर्थः / जिह्वोन्मथने लडिः 814 / 'लड विलासे' इति पठितस्य मित्त्वार्थोऽनुवादः / उन्मथनं क्षोभणम् / जिह्वाशब्देन षष्ठीतत्पुरुषः / लडयति जिह्वाम / विज्ञापनति, ज्ञापयतीति च रूपमिति शेषः / * नान्ये मितोऽहेतो' इति निषेधान तस्य मित्त्वमिति भावः / ननु नियोगार्थस्य तस्य कथं ज्ञापने वृत्तिरित्यत आह / धातूनामिति / न कापीति // विज्ञापनेत्यत्र ज्ञापयतीत्यत्र च ज्ञापनार्थवृत्तित्वात् ज्ञापनस्य च मारणतोषणाक्षणाकरणान्यत्त्वान तस्मिन्नर्थे ज्ञाधातोर्मित्त्वप्रसक्तिरिति भावः / एवञ्च माधवमत बांधने ज्ञाधातोः ज्ञापयतीत्युपधादीर्घः / ज्ञपधातोस्तु ज्ञपयतीत्युपधाहस्व इति रूपव्यमपि साध्विति स्थितम् / कम्पने चलिरिति // इका निर्देशोऽयम् / 'चलधातुः कम्पने' मिदित्यर्थः / ज्वलादिरिति // तस्य चले: कम्पने मित्त्वार्थोऽत्रानुवाद इति भावः / शीलचालयतीति // अत्र कम्पनार्थकत्वाभावान मित्त्वमिति भावः। तदाह / अन्यथा करोतीत्यर्थ इति // धातूनामनेकार्थत्वादिति भावः / छदिर् ऊर्जने इति // इका निर्देशोऽयम् ‘छद धातुरूजने' मिदित्यर्थः / ऊर्जनं बलवत्करणं प्राणनं वा / ऊर्ज बलप्राणनयारित्युक्तः / अन्यत्र पठितस्यानाविशेषे णौ मित्त्वार्थोऽनुवाद इति सिद्धान्तः। छदधातुस्त्वयञ्चुराद्यन्तगण युजादी पठितः। तस्यात्रानुवादो व्यर्थः / नान्ये मितोऽहेताविति ज्ञपादिपञ्चकव्यतिरिक्तस्य चुरादा भित्त्वनिषेधादित्यत आह / छद अपवारणे इति // चुराद्यन्तर्गणयुजादिपठितस्य 'आ धृषाद्वा' इति स्वार्थिकणिजभावपक्षे ऊर्जनेऽथे मित्त्वार्थोऽनुवाद इत्यर्थः / स्वार्थिकाणचि सत्येव नान्ये मित इति निषेधप्रवृत्तेरिति भावः / नन्वपवारणार्थकस्य छदेः कथमूर्जने वृत्तिरित्यत आह / अनेकार्थत्वादिति // ननु स्वार्थणिजभावे सति मित्त्वकिमर्थमित्यत आह / छदन्तं प्रयुक्त छदयतीति // अत्र हेतुमणिचि इस्वः / नान्ये मित इति निषेधस्य हेतुमण्णिाचि निषेधः स्यादिति भावः / अन्यत्रेति // ऊर्जनादन्यत्र अपवारणे इत्यर्थः / स्वार्थे णिचि त्विति // 'नान्ये मितः' इति निषेधस्य तत्र प्रवृत्तेरिति भावः / जिह्वोन्मथने लडिरिति // इका निर्देशोऽयम् / लडधातुर्जिह्वोन्मथने मिदित्यर्थः / लडेति // ‘लड विलासे' इति टवर्गान्तेषु भ्वादौ पठितस्य जिह्वान्मथनेऽथे मित्त्वार्थोऽनुवाद इत्यर्थः / एवञ्च धातुभेदाभावात् सर्वथैव मित्वकार्यम्फलति। गणभेदाद्धातुभेदे मित्त्वतदभावयोर्विकल्पः स्यादिति भावः / लड़यति For Private And Personal Use Only