________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम] बालमनोरमा। 121 पुनरिह पाठो मित्त्वार्थ आत्मनेपदार्थश्च / त्रि त्वरा 775 सम्भ्रमे / 'घटादयः पित:' (ग सू 186) / पित्त्वादङ् कृत्सु वक्ष्यते / अथ फणान्ताः परस्मैपदिनः / ज्वर 776 रोगे / ज्वरति / जज्वार / गड 777 सेचने / गडति / जगाड / हेड 778 वेष्टने / 'हेड अनादरे ' इत्यात्मनेपदिपु गतः / स एवोत्सृष्टानुबन्धोऽनूद्यते अर्थविशेषे मित्त्वार्थम् / परस्मैपदिभ्यो ज्वरादिभ्यः प्रागेवानुवादे कर्तव्ये तन्मद्ध्येऽनुवादसामर्थ्यात्परस्मैपदम्। हेडति / जिहेड / हिडयति / अहिडि-अहीडि / अनादरे तु हेडयति / वट 779 भट 780 परिभाषणे / ‘वट वेष्टने' 'भट भृतौ' इति पठितयोः परिभाषणे मित्वार्थोऽनुवादः / णट 781 नृत्तौ / इत्थमेव पूर्वमपि पठितम् / तत्रायं विवेकः / पूर्व पठितस्य नाट्यमर्थः / यत्कारिषु नटव्यपदेशः / पौनरुक्त्यं परिहरति / कदि ऋदि क्लदीनामित्यादिना / जि त्वरेति // जिरित् / 'जीतः क्तः' इति प्रयोजनम् / आदित्त्वन्तु 'आदितश्च' इति निष्ठायामिनिषेधार्थम् / वस्तुतस्तु आदित्वं व्यर्थम् / इस्वेऽप्यात्मनेपदसिद्धेः ‘रुष्यमत्वरसंघुषास्वनाम्' इति निष्ठायामिविकल्पसिद्धेश्च / घटादयः पित इति // त्वरत्यन्ता इति शेषः / गणसूत्रमिदम् / तत्प्रयोजनमाह / षित्त्वादिति / वक्ष्यते इति // ‘पिद्भिदादिभ्योऽङ' इत्यनेनेति शेषः / घटादिषु त्रयोदशानुदानेतो गताः / 'द्युत दीप्तौ' इत्यतः प्राक घटादिसमाप्तिरिति वक्ष्यते। अथ फणान्ता इति // फण गतावित्येतत्पर्यन्ता इत्यर्थः / ज्वर रोगे इति // णौ ज्वरयति / चिणि तु अचरि अज्वारि / णमुलि तु ज्वरं ज्वरम् , ज्वारं ज्वारम् / एवमग्रेऽपि ज्ञेयम् / हेड वेष्टने इति // डकारादकार उच्चारणार्थः / ततश्च 'नाग्लोपिशास्वृदिताम्' इति निषेधो न भवति / स एवेति // हेडधातुरेव ऋकारानुबन्धमुत्सृज्य वेष्टनरूपे अर्थविशेषे मित्त्वार्थमन्द्यते इत्यर्थः / धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भावः / नन्वात्मनेपदिन एवात्रानुवादे परस्मैपदन्न स्यादित्यत आह / परस्मैपदिभ्य इति // यदित्वात्मनेपदमित्रं ताई घटादिषु त्वरत्यन्तेष्वेवानुदात्तेत्सु पठ्यतेति भावः। हेडतीति // वेष्टते इत्यर्थः / हिडयतीति // वेष्टयतीत्यर्थः / -- हेतुमति' इति णिचि ‘मितां ह्रस्वः' इति हस्व इति भावः / अहिडि अहीडीति || ‘चिण्णमुलोः' इति दीर्घविकल्पः / अनादरे तु हेडयतीति // वेटनरूपार्थ एव मित्त्वान्न ह्रस्व इति भावः / ‘वट परिभाषणे' इति नापूर्वो धातुरित्याह / वट वेष्टने इत्यादि / अनुवाद इति // धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भावः / ‘णट नृत्तो' इत्यस्य पौनरुक्त्यमाक्षिपति / इत्थमेव पूर्वमपि पठितमिति // टवर्गान्तेष्विति शेषः / तथा च उभयोरप्यथैक्येन अर्थविशेषे मित्त्वार्थमिहानूद्यते इति परिहारस्य सम्भवानपौनरुक्त्यमिति भावः / परिहर्तुमुपक्षिपति / तत्रायं विवेक इति // तत्र तयोः धात्वोः अयं वक्ष्यमाण: विवेक: अर्थभेदः प्रत्येतव्य इत्यर्थः / पूर्वम्पठितस्येति // 16 For Private And Personal Use Only