________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org Achar प्रकरणम् बालमनोरमा। 111 यत्त्वनिट्कारिकान्यासे द्वयोर्ग्रहणमित्युक्तं, तत्स्वोक्तिविरोधाद्ग्रन्थान्तरविरोधाञ्चोपेक्ष्यम् / पुप्रोष / पुप्लोष / 'पृषु 705 वृषु 706 मृषु 707 सेचने' / ' मृषु' सहने च / इतरौ हिंसासंक्लेशनयोश्च / पर्षति / पपर्ष / पृष्यात् / 'घृषु 708 सङ्घर्षे' / 'हृषु 709 अळीके' / 'तुस 710 ह्रस 711 ह्रस 712 रस 713 शब्दे' / तुतोस / जहास / जहास / ररास / ‘लस 714 श्लेषणक्रीडनयो:' 'घल 715 अदने' / अयं न सार्वत्रिकः / 'लिट्यन्यतरस्याम्' (सू 2424) इत्यदेघस्लादेशविधानात् / ततश्च यत्र लिङ्गं वचनं वास्ति तत्रैवास्य प्रयोगः / अत्रैव पाठः शपि परस्मैपदे लिङ्गम / लदित्करणमङि / अनिट्कारिकासु पाटो वलाद्यार्धधातुके / क्मरचि तु विशिष्योपादानम् / घसति / घस्ता / 2342 / सः स्यार्धधातुके / (7-4-49) सस्य तः स्यात्सादावार्धधातुके / घत्स्यति / घसतु / अधसत् / घसेत् / लिङ्गाद्यभावादाशिष्यस्याप्रयोगः / द्वयोर्ग्रहणमिति // भौवादिकदेवादिकयोरित्यर्थः / स्वोक्तीति // “श्लिष आलिङ्गने' इति सूत्रे देवादिकश्लिषेरनिटकेषु ग्रहणमिति न्यासकृता कैयटादिभिश्वोक्तत्वादिति भावः / पृषु वृषु इत्यारभ्य हृषुपर्यन्ता ऋदुपधाः / अलीकं मिथ्याभवनं मिथ्योक्तिर्वा / तुसहसेत्यारभ्य णशगतावित्यतः प्राक सकारान्ताः। घस्लधातुरनिटकः / अयमिति // घस्लधातुः सर्वेषु न प्रयोज्य इत्यर्थः / कुत इत्यत आह / लिटीति // यद्ययं सार्वत्रिकस्स्यात् तदा लिट्यपि प्रयुज्येत / ततश्च 'अद भक्षणे' इति धातोर्लिट्यन्यतरस्यामिति घस्लभावविधिर्व्यर्थः स्यादिति भावः / असार्वत्रिकत्वे सति व प्रयोगः क नेत्यत आह / ततश्चेति // यत्र घस्लधातोः प्रयोगे ज्ञापकं प्रत्यक्षवचनं वास्ति तत्रैवास्य प्रयोग इत्यर्थः। तत्र तावल्लिङ्गन्दर्शयति / अत्रैवेति // भ्वादिगणे अत्रैव कमेः परस्मैपदे अस्य पाठश्शपि प्रयोगे लिङ्गमित्यर्थः / नच धातुसंज्ञार्थः पाठ इति शङ्कयम् / द्युतदीप्तावित्युक्तरीत्याऽस्य पाठेनैव सिद्धे अत्र क्रमे तत्पाठवैयर्थ्यादिति भावः / लदित्करणमङीति // प्रयोगे लिङ्गमिति शेषः / अनिट्कारिकास्विति // अनुदात्तोपदेशेषु घस्लधातोः पाठः वलाद्यार्धधातुके प्रयोगे लिङ्गमित्यर्थः / अथ कचिदस्य प्रयोगे प्रत्यक्षवचनन्दर्शयति / क्मरचीति // 'सृघस्यदः क्मरच् , इत्यत्र विशिष्य घसेरुपादानात्क्मरचि प्रयोगे प्रमाणमित्यर्थः। घसतीति / / लुटि तसाद्युपलक्षणमिदम् / लिटि अस्य प्रयोगाभावाल्लुटयुदाहरति / घस्तेति / सम्सि // सः इति छेदः / सः इति षष्ठ्यन्तम् / सि इति सप्तम्यन्तम् आर्धधातुकविशेषणम् / तदादिविधिः / 'अच उपसर्गात्तः' इत्यत: त इत्यनुवर्तते / अकार उच्चारणार्थः / तदाह / सस्य तः स्यादिति // आदेशे अकारस्य उच्चारणार्थत्वात्तकारः For Private And Personal Use Only