________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
46
आयुर्वेदसूत्रे
चतुर्विंशतिसिरा नासिकाग्रगतोद्भवा पृथिवी चतुर्विंशतितत्वबोधिका ।। ८३॥ ___ सर्वाणि तत्वानि नासाने प्रतिभान्ति । तस्मात्पार्थिवावयवि शरीरं कथं स्यादित्यस्वरसादाह यत्सिरति ।। ___ यत्सिरावृतं शरीरम् । अन्नाद्ब्रतानि जायन्ते, जातन्यनेन वर्धन्ते, अद्यतेऽत्ति च भूतानि, तस्मादन्नं तदुच्यते ॥ ८४ ॥ __सर्वाणि शरीराणि पार्थिवानि। तदितराः आपो ह्यग्नयनिलाकाशाः तत्कार्योपलम्भकमात्रचरितार्थत्वात् । अतोऽन्यावयवं शरीरं स्यादित्याशङ्कते- नासिकेति। नासिकाधिक्यविकारभताः नासाग्रे प्रतीयन्ते।।
तत्तनिष्ठगुणानि तानि चतुर्विंशतितत्वरूपगुणानि चतुर्विंशतिसिराधारकानि । सर्वेऽवयवा गन्धवद्गणभूयिष्ठाः । तस्मात् शरीरं पार्थिवमिति सर्वजनसिद्धमिति एतत्सिराकृतं शरीरमिति वक्तुं शक्यते । दोषधातुमलाशयात्मकं तत्सर्व गन्धोपलब्धिशानपूर्वकं पञ्चभूतात्मकं शरीरमिति सूत्रं न क्षम, तदेहातिरिक्तदेशस्थितं शरीरं समवेत्य तिष्ठतीति नोपयुक्तम् । किं च "अन्नाद्भतानि जायन्ते" इति वचनमपि नोपपद्यते, सर्वेषां सर्वकालेऽपि प्रजोत्पत्तिरेव स्यात् इति चेन्न । अन्नादनसामग्रया सर्वदोषस्थितत्वात्ताहशं कार्य नोपपद्यते इति । किन्तु अदृष्टद्वारा स्त्रीपुंसयोगे सति प्रजाः प्रजायन्ते । तस्माच्छररािन्तास्थितसप्तधातूनां मातृजास्त्रयः पितृजाश्च त्रयः । उभयमेलनं योनिः ।
For Private And Personal Use Only