________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमप्रश्न:
रसादिभेदविभजनार्थ रसनेन्द्रियप्रकल्पनम् । तदुद्भूतद्रव्यं तद्विभजनार्थम् । तदुद्भतव्यतिरिक्तस्य तेन ग्रहीतुमशक्यत्वात्, इ. त्याशयं भनसि निधाय रसनेन्द्रियस्वरूपं विवृणोति- लालेति ।
लालारूपो रसादिभेदान्विभजन जिह्वया रसं गृह्णाति ॥८॥
लालारूपरसः जिह्वाग्रवर्ती पदार्थान्गृह्णाति । भुक्तानविभजनं च करोतीत्यर्थः । ___ननु रसादिविभजनं ग्रहणीकला अदुष्टा सती करोतीति सर्व विधिवत्प्रतीयते । सा अदुष्टा सत्यपि तद्विभजनज्ञानं नानुभूयते, तद्विभजनज्ञानस्य जठराग्नेश्च कार्यकारणभावो गृह्यते चेत् जिह्वाग्रस्थितलालाजलस्य कार्यकारणभावः कथं गृह्यते ? तद्भेदविभजनस्य अन्यथा सिद्धत्वात् । तस्मादनन्योद्भूतात्मकत्वं नोपलभ्यते इत्यस्वरसादाह - जिह्वति। जिह्वासंस्थितद्विसिराधारसर्वरसाभिज्ञा ॥२॥
अनलजाताब्लालारूपरसनेन्द्रियस्य रसस्पर्शमात्रेण तत्त. द्वयञ्जनं कृत्वा रसादयोऽनुभूयन्ते । अन्वयव्यतिरेकप्रमाणसिद्धत्वात् । द्विासराधारकत्वं सर्वरसाभिज्ञत्वं अनलजन्यत्वं चैतस्यैव प्रतीयते नान्यस्येत्यर्थः । पृथिवीलक्षणं गन्धवस्वम् । गन्धवती पृथिवी सर्वशरीरगन्धापलंभिका भवति । शरीरं पार्थिव गन्धगुणस्योपलश्यमानत्वात्, यन्त्रवं, तन्नैवं यथा वायव्यशरीरम। यथेति वायुलोकनिवासिनां दृष्टान्तः । अस्य तु शरीरस्य पार्थिवावयवत्वेन सर्वगन्ध उपलभ्यते । तस्मान्न पञ्चभूता. स्मकं शरीरमित्यस्वरसादाह--- चतुरिति ।
For Private And Personal Use Only