________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथम प्रश्नः
29
भावत्वेन तेन साकं अष्टविधप्रकारत्वं नोपपद्यत इत्यस्वरसादाह-मन इति ।
मनःकामभयभूताभिघातकालहेतूत्पन्नज्वरस्यान्तर्विदाहश्वासखासमदभ्रममूर्छाच्छद्यतिसारशोककोधभयगुणास्तनिवर्तकनिवर्तका आगन्तुकज्वराः ॥ ५९ ।। ... मनोऽभिघातज्वरो मानसिकज्वरः । मनोदायसम्पादनमेव तत्र भेषजम् । कामः-यावत्प्रीतिविषयकमनोभावहेतूत्पन्नज्वरः । यावदर्थानभिभूततदन्यानुभवनित्यज्ञानविषयविपरीतशानजन्यज्वरो भयजातज्वरः । एवं भूतज्वरस्य अभिघातज्वरत्वम्। ते कालस्वभावजातज्वरा एव । तादृशज्वरा बहवस्सन्ति । तस्मादागन्तुकज्वरस्यापि सन्निधानपूर्वकत्वादष्टसङ्घयापूरणं सूत्रेण कृतमित्यर्थः। तत्र निदानवचनं--
वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात् । वैकृतोऽन्यस्स दुस्साध्यः प्रायश्च प्राकृतोऽनिलात् ॥ वर्षासु मारुतो दुष्टः पित्तश्लेम्मान्वितो ज्वरम् । कुर्यात्पित्तं च शरदि तस्य चानुवलं कफः ॥ तत्प्रकृत्या विसर्गाश्च तत्र नानशनाद्भयम। कफो वसन्ते तमपि वातपित्तं भवेदनु ॥ बलवत्स्वल्पदोषेषु ज्वरस्साध्योऽनुपद्रवः । सर्वथा विकृतिज्ञाने प्रागसाध्य उदाहृतः ॥
** अष्टाङ्गनिदानं 11 50-53.
For Private And Personal Use Only