________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
20
आयुर्वेदसूत्रे
अत्ररोगोत्पादकपदार्थानामहष्टत्वेन तु उत्पादकद्रव्याणामसद्भावितत्वेन तद्रोगनिवृत्त्यर्थ शास्त्रप्रवृत्तिः कथं भवेदित्यखरसादाह-व्युत्क्रम इति ।
व्युत्क्रमरला विकारकारकाः ॥४७॥
स्वादुतिक्तयोमित्रत्वम् । कषायाम्लरसयोर्मित्रत्वम् । लवणोषणरसयोर्मित्रत्वम् । एतव्यतिरिक्तानां एतद्वयतिरिक्तपदार्थेरन्योन्ययोगे व्युत्क्रमरसयोस्सत्त्वम् । तस्मात्युत्क्रमरसावेव कारकावित्यर्थः। तस्मात्कर्माधीनवशात्पाके सम्भवति तत्र अहष्टमेव नियामकम् । ईश्वरस्सर्वक्षस्स एव स्वकर्मानुकूलफलं प्रयच्छति । प्रत्यहं सर्वरसादनत्वस्य सर्वशरीराणां सम्भावितत्वात् । अतः परमाप्तं पण्डितं स्वनिकटे संस्थाप्य भक्ष्याभक्ष्यपदार्थों विभज्य तत्सर्व पण्डिताय विज्ञापयन् तेन अरोगकार्यकारणभावं जानन् प्रवर्तेत । तत्र वचनं- राजा राजगृहासन्ने प्राणाचार्य निवेशयेत् । . सर्वदा स भवत्येवं सर्वत्र प्रतिजागृविः * ॥
व्युत्क्रमरसबद्दव्यादनमेव विषमान्नम् । तस्मादरक्षणीयं न किंचित् ।
ननु अहरहक्षितान्नं जठराग्निना पच्यते । तत्कृतपचनेन भक्षितानं भस्मीभवति । सर्व सारकिट्टतया विभज्य तेन धातुपोषणं कथं क्रियत इत्यत आह-पाचकेति ।
पाचकपित्तं पचत्याहारम् ॥४८॥
जठराग्निना भक्षितानं न पच्यते । तत् पाचकपित्तेन भाव्यम् । तेन सारकिट्टतया विभज्य किट्टकर्म कर्तुं योग्यमित्यर्थः । तत्र वचन
* अष्टाङ्गसूत्रं VII-1.
-
For Private And Personal Use Only