________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
3
प्रथमप्रश्नः.
Acharya Shri Kailassagarsuri Gyanmandir
ननु एकस्सकलविषयभोगान्भुङ्क्ते । भोगाः कर्माधीनाः । जीवस्य कर्मभोक्तृत्वं विधिरिति व्यक्तव्ये सति उपस्थिताविषयभोक्तृत्वं जीवस्य परमात्मनस्सर्वविषय भोक्तृत्वं भासते, सर्वशत्वात् । उभयोः कर्मभोक्तृत्वं प्रसक्तमित्यस्वरसादाह - अन्य इति ।
9
अन्यः कर्म भुङ्क्ते ॥ १९॥
अन्यो जीवात्मा कर्माधिकारी सन् स्वकर्माधीनविषयभो गान भुङ इत्यर्थः । सुकर्मणा सुखप्रदानविषयफलं भुङ्क्ते । दुष्टकर्मणा दुःखविषयकफलं भुङ्क्ते । भोगस्य सुखदुःखात्मकत्वात् । सुखदुःखानुभषो भोगः जीवस्य लक्षणं प्रतिभासितम्। जीवस्य सकलयिनुभवत्वं प्रसज्यत इत्यर्थः । दुष्टकर्मजं शरीरे सति सत्कर्मैव सदा कुर्यादित्यर्थः ।
,
परमात्मनः सत्कर्मविषयककर्मकरणत्वं विधिः । ईश्वरस्यापि यत्किचित्कर्मजनक कर्माधिकारित्वं प्रसक्तमित्यस्वरसादाह-य इति ।
यः कर्ता कर्मभोगी ॥ २० ॥
राजसताम सफलप्रदहेतुकद्रव्यादनजात सुख दुःख फलं । अहंकारवशिष्ट कर्माधिकारिणः प्रयच्छत इति । साक्षात्कर्मणः फलावश्यंभावनियमादित्यत आह-कर्तेति ।
कर्ता शरीरी ॥ २१ ॥
यावत्कर्मकर्ता शरीरी अत्र कर्ता भवतीत्यर्थः । यत्किचित्फलमुद्दिश्य यः कर्म करोति स शरीरीत्युक्तम् । शरीराभावा-दात्मन अन्न दनत्वं न योग्यमित्यस्वरसादाह- अशरीरीति ।
AYURVEDA.
2
For Private And Personal Use Only